रामायणम्/अयोध्याकाण्डम्/सर्गः ३९
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३८ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४० → |
रामायणम्/अयोध्याकाण्डम् |
---|
रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् । समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥ न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् । न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥ स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः । विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥ मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः । प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥ न तु एव अनागते काले देहाच् च्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥ मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् । विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥ एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः । स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥ एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह । राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥ सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः । नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥ औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः । प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥ एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते । पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥ राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः । योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥ तम् रथम् राज पुत्राय सूतः कनक भूषितम् । आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥ राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये । उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥ वासाम्सि च महा अर्हाणि भूषणानि वराणि च । वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥ नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः । प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥ व्यराजयत वैदेही वेश्म तत् सुविभूषिता । उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥ ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् । अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥ असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः । भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥ एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥ असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा । युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥ न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः । स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥ साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे । स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥ स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम । तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥ विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् । कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥ करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् । अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥ न माम् असज् जनेन आर्या समानयितुम् अर्हति । धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥ न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः । न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा ॥२-३९-२९॥ मितम् ददाति हि पिता मितम् माता मितम् सुतः । अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥ सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा । आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥ सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् । शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥ ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् । रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥ अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम । क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥ सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च । सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥ एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः । त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥ ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः । धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥ सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् । तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥ वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् । शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥ जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः । मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥ मुरज पणव मेघ घोषव । द्दशरथ वेश्म बभूव यत् पुरा । विलपित परिदेवन आकुलम् । व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥