रामायणम्/अयोध्याकाण्डम्/सर्गः ५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५६ →
रामायणम्/अयोध्याकाण्डम्

उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ ००१
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति 2.55.1 ००१
प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ००२
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ००२
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) ००३
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ००३
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ००४
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ००४
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ००५
पलाशबदरीमिश्रं राम वंशैश्च यामुनैः ००५
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ००६
रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ००६
इति पन्थानमावेद्य महर्षिः स न्यवर्तत ००६
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ००७
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ००७
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ००८
सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ००८
तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम् ००९
चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसं ००९
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ०१०
ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ०१०
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ०११
तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम् ०११
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ०१२
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ०१२
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ०१३
इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम् ०१३
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ०१४
बहून्मेध्यान्मृगान् हत्वा चेरतुर्यमुनावने ०१४
विहृत्य ते बर्हिणपूगनादिते॑ शुभे वने वारणवानरायुते ०१५
समं नदीवप्रमुपेत्य संमतं॑ निवासमाजग्मुरदीनदर्शनः 2.55.33 ०१५


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥

उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।
प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) ।
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् ।

ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।

इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।

अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।

तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।

पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।

आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।

काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।

काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।

ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।

न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।

सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।

यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।

गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।

एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
सीतावचनसम्रब्द अनयामास लक्स्मणः ।

विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।

क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।

विहृत्य ते बर्हिणपूगनादिते ।
शुभे वने वानरवारणायुते ।
समम् नदीवप्रमुपेत्य सम्मतम् ।
निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥