रामायणम्/अयोध्याकाण्डम्/सर्गः ३८
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् । प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥२-३८-१॥ तेन तत्र प्रणादेन दुःखितस्स महीपतिः । चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२-३८-२॥ स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् । कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥२-३८-३॥ सुकुमारी च बाला च सततम् च सुखोचिता । नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥२-३८-४॥ इयम् हि कश्यापकरोति किम्चि । त्तपस्विनी राजवरस्य कन्या । या चीरमासाद्य जनस्य मध्ये । स्थिता विसम्ज्ञा श्रमणीव काचित् ॥२-३८-५॥ चीराण्यसास्या जनकस्य कन्या । नेयम् प्रतिज्ञा मम दत्तपूर्वा । यथासुखम् गच्छतु राजपुत्री । वनम् सम्ग्रा सह सर्वर्त्नैः ॥२-३८-६॥ अजीवनार्हेण मया नृशम्सा । कृता प्रतिज्ञा नियमेन तावत् । त्वया हि बाल्यात् प्रतिपन्नमेतत् । त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥२-३८-७॥ रामेण यदि ते पा पे किम्चित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥२-३८-८॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी । अपकारम् कमिह ते करोति जनकात्मजा ॥२-३८-९॥ ननु पर्याप्तम् एतत् ते पापे राम विवासनम् । किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥२-३८-१०॥ प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता । रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥२-३८-११॥ तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि । मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥२-३८-१२॥ इतीव राजा विलपन्महात्मा । शोकस्य नान्तम् स ददर्श किम्चित् । भृशातुरत्वाच्च पपात भूमौ । तेनैव पुत्रव्यसनेन मग्नः ॥२-३८-१३॥ एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् । अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥२-३८-१४॥ इयम् धार्मिक कौसल्या मम माता यशस्विनी । वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥२-३८-१५॥ मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् । अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥२-३८-१६॥ पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता । माम् हि सम्चिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥२-३८-१७॥ इमाम् महा इन्द्र उपम जात गर्भिनीम् । तथा विधातुम् जनमीम् मम अर्हसि । यथा वनस्थे मयि शोक कर्शिता । न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥२-३८-१८॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥