रामायणम्/अयोध्याकाण्डम्/सर्गः २८
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः २७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः । निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥ सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् । निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥ सीते महा कुलीना असि धर्मे च निरता सदा । इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥ सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले । वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥ सीते विमुच्यताम् एषा वन वास कृता मतिः । बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥ हित बुद्ध्या खलु वचो मया एतत् अभिधीयते । सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥ गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् । सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥ क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः । दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥ सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः । मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥ लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः । निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥ सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले । रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥ अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना । फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥ उपवासः च कर्तव्या यथा प्राणेन मैथिलि । जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥ देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् । प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥ कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः । चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥ यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि । यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥ अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः । भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥ सरी सृपाः च बहवो बहु रूपाः च भामिनि । चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥ नदी निलयनाः सर्पा नदी कुटिल गामिनः । तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥ पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह । बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥ द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि । वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥ कायक्लेशाश्च बहवो भयानि विविधानि च । अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥ क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः । न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥ तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव । विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥ वनम् तु नेतुम् न कृता मतिस् तदा । बभूव रामेण यदा महात्मना । न तस्य सीता वचनम् चकार तत् । ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥ ॥ इति अयोध्य कान्दे रामयने ष्टाविम्शः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥