रामायणम्/अयोध्याकाण्डम्/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १२ →
रामायणम्/अयोध्याकाण्डम्

तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥

नास्मि विप्रकृता देव केन चिन्नावमानिता ।
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥

तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।
कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥

तेनाजय्येन मुख्येन राघवेण महात्मना ।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥

यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥

आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥

भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥

बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥

सा तदर्थमना देवी तमभिप्रायमागतम् ।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥

तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥

यथा क्रमेण शपसि वरं मम ददासि च ।
तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥

चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।
जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥

सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।
वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥

इति देवी महेष्वासं परिगृह्यभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥

स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥

तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।
तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥

तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥

ततः परमुवाचेदं वरदं काममोहितम् ।
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।

अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥
अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।

यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
चीराजिनजटाधारी रामो भवतु तापसः ।

भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
एष मे परमः कामो दत्तमेव वरं वृणे ।
अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥

स राजराजो भव स्त्यसंगरः ।
कुलं च शीलं च हि रक्ष जन्म च ।
परत्र वासे हि वद्न्त्यनुत्तमं ।
तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥

॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ११थ् सर्गः ॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥