रामायणम्/अयोध्याकाण्डम्/सर्गः ८१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ८० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८२ →
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥

ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।
तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥

सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।
दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥

स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।
भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥

ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।
न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥

पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।
विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥

तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।
परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥

इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।
कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥

तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।
सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥

शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।
सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥

स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।
अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥

ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।
क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥

सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।
युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥

ततः हलहला शब्दो महान् समुदपद्यत ।
रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥

ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।
प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥

ह्रदैव तिमि नाग सम्वृतः ।
स्तिमित जलो मणि शन्ख शर्करः ।
दशरथ सुत शोभिता सभा ।
सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥