रामायणम्/अयोध्याकाण्डम्/सर्गः १५
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः १० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः । उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥ अमात्या बल मुख्याः च मुख्या ये निगमस्य च । राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥ उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि । अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥ कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् । काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥ रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा । गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥ याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च । प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥ ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः । सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा । क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥ वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः । चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् । चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् । पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥ प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते । अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥ वादित्राणि च सर्वाणि वन्दिनश्च तथापरे । इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥ तथाजातीयमादाय राजपुत्राभिषेचन्म् । ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥ अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् । न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः । इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥ अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः । रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥ गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् । अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥ राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् । इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥ सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह । तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥ शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत । सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् । सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥ वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते । गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥ बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् । ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥ दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव । स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥ प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् । राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥ किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते । न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥ इति राजा दशरथः सूतं तत्रान्वशात्पुनः । स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥ निर्जगम नृपावासान्मन्यमानः प्रियं महत् । प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥ हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् । स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥ अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् । ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् । महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥ काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् । शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥ मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् । मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥ गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा । सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥ सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा । मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥ चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् । महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥ मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह । उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥ उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः । रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥ महामेघसमप्रख्यमुदग्रं सुविभूषितम् । नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥ स वाजियुक्तेन रथेन सारथि । र्नराकुलं राजकुलम् विराजयन् । वरूथिना रामगृहाभिपातिना । पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥ ततस्समासाद्य महाधनं महत् । प्रहृष्टरोमा स बभूव सारथिः । मृगैर्मयूरैश्च समाकुलोल्बणं । गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥ स तत्र कैलासनिभाः स्वलंकृताः । प्रविश्य कक्ष्यास्त्रिदशालयोपमाः । प्रियान् वरान् राममते स्थितान् बहून् । व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥ स तत्र शुश्राव च हर्षयुक्ता । रामाभिषेकार्थकृता जनानां । नरेम्द्रसूनोरभिमंगLआर्थाः । सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥ महेंद्रसद्मप्रतिमं तु वेश्म । रामस्य रम्यं मृगमुच्चं । विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥ उपस्थितै रञ्जलिकारिभिश्च । सोपायनैर्जानपदैर्जनैश्च । कोट्या परार्धैश्च विमुक्तयानैः । समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥ ततो महामेघमहीधराभं । प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्याम् रुचिरम् ददर्श । शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥ स्वलंकृतान् सास्वरथान् सकुम्जरा । नमात्यमुखयाम्श्च ददर्श वल्लभान् । व्यपोह्य सूतः सहितान्समंततः । समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥ ततोऽद्रिकूटाचलमेघसन्नि भं । महाविमानोपमवेश्मसंयुतम् । अवार्यमाणः प्रविवेश सारथिः । प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डेपञ्चदशः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥