रामायणम्/अयोध्याकाण्डम्/सर्गः १५

विकिस्रोतः तः
← सर्गः १४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १६ →
पञ्चदशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।
उपतस्थुरुपस्थानं सह राजपुरोहिताः॥ १॥

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।
राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः॥ २॥

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि।
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते॥ ३॥

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्।
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्॥ ४॥

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।
गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्॥ ५॥

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च।
प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः॥ ६॥

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ७॥

अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः॥ ८॥

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा।
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्॥ ९॥

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्।
चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्॥ १०॥

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्।
पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः॥ ११॥

वादित्राणि च सर्वाणि वन्दिनश्च तथापरे।
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्॥ १२॥

तथाजातीयमादाय राजपुत्राभिषेचनम्।
ते राजवचनात् तत्र समवेता महीपतिम्॥ १३॥

अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्।
न पश्यामश्च राजानमुदितश्च दिवाकरः॥ १४॥

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः।
इति तेषु ब्रुवाणेषु सर्वांस्तांश्च महीपतीन्॥ १५॥

अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः।
रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्॥ १६॥

पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः।
अयं पृच्छामि वचनात् सुखमायुष्मतामहम्॥ १७॥

राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्।
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्॥ १८॥

सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह।
तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः॥ १९॥

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत।
सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा॥ २०॥

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥ २१॥

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते।
गता भगवती रात्रिरहः शिवमुपस्थितम्॥ २२॥

बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्।
ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह॥ २३॥

दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव।
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्॥ २४॥

प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्।
राममानय सूतेति यदस्यभिहितो मया॥ २५॥

किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते।
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्॥ २६॥

इति राजा दशरथः सूतं तत्रान्वशात् पुनः।
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्॥ २७॥

निर्जगाम नृपावासान्मन्यमानः प्रियं महत्।
प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्॥ २८॥

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्।
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः॥ २९॥

अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्।
ततो ददर्श रुचिरं कैलाससदृशप्रभम्॥ ३०॥

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्।
महाकपाटपिहितं वितर्दिशतशोभितम्॥ ३१॥

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम्॥ ३२॥

मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्।
मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम्॥ ३३॥

गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्॥ ३४॥

सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा।
मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा॥ ३५॥

चन्द्रभास्करसंकाशं कुबेरभवनोपमम्।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्॥ ३६॥

मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह।
उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः॥ ३७॥

उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः।
रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्॥ ३८॥

महामेघसमप्रख्यमुदग्रं सुविराजितम्।
नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम्॥ ३९॥

स वाजियुक्तेन रथेन सारथिः
समाकुलं राजकुलं विराजयन्।
वरूथिना राजगृहाभिपातिना
पुरस्य सर्वस्य मनांसि हर्षयन्॥ ४०॥

ततः समासाद्य महाधनं महत्
प्रहृष्टरोमा स बभूव सारथिः।
मृगैर्मयूरैश्च समाकुलोल्बणं
गृहं वरार्हस्य शचीपतेरिव॥ ४१॥

स तत्र कैलासनिभाः स्वलंकृताः
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः।
प्रियान् वरान् राममते स्थितान् बहून्
व्यपोह्य शुद्धान्तमुपस्थितौ रथी॥ ४२॥

स तत्र शुश्राव च हर्षयुक्ता
रामाभिषेकार्थकृतां जनानाम्।
नरेन्द्रसूनोरभिमङ्गलार्थाः
सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ ४३॥

महेन्द्रसद्मप्रतिमं च वेश्म
रामस्य रम्यं मृगपक्षिजुष्टम्।
ददर्श मेरोरिव शृङ्गमुच्चं
विभ्राजमानं प्रभया सुमन्त्रः॥ ४४॥

उपस्थितैरञ्जलिकारिभिश्च
सोपायनैर्जानपदैर्जनैश्च।
कोट्या परार्धैश्च विमुक्तयानैः
समाकुलं द्वारपदं ददर्श॥ ४५॥

ततो महामेघमहीधराभं
प्रभिन्नमत्यङ्कुशमत्यसह्यम्।
रामोपवाह्यं रुचिरं ददर्श
शत्रुञ्जयं नागमुदग्रकायम्॥ ४६॥

स्वलंकृतान् साश्वरथान् सकुञ्जरा-
नमात्यमुख्यांश्च ददर्श वल्लभान्।
व्यपोह्य सूतः सहितान् समन्ततः
समृद्धमन्तःपुरमाविवेश ह॥ ४७॥

ततोऽद्रिकूटाचलमेघसंनिभं
महाविमानोपमवेश्मसंयुतम्।
अवार्यमाणः प्रविवेश सारथिः
प्रभूतरत्नं मकरो यथार्णवम्॥ ४८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।