रामायणम्/अयोध्याकाण्डम्/सर्गः १

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः २ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥

गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥

सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥

तेषामपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥

स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥

कौसल्या शुशुभे पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥

स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥

स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥

कथंचिदुपकारेण कृतेनै केन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥

शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥

कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥

नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥

स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥

सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥

धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥

अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥

बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥

लोकपालोपमं नाथमकामयत मेदिनी ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥

मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥

अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥

शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥

निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥

संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥

समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥

ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥

ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥

राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।
स लब्धमानैर्विनयान्वितैर्नृपैः ।
पुरालयै र्जानपदैश्च मानवैः ।
उपोपविष्टैर्नृतो बभौ ।
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥

॥ इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥