रामायणम्/बालकाण्डम्/सर्गः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३३ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३५ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥

कृत उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् ॥१-३४-१॥

इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतः तदा ॥१-३४-२॥

पुत्रः ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् ॥१-३४-३॥

एवम् उक्त्वा कुशो राम कुशनाभम् महीपतिम् ।
जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् ॥१-३४-४॥

कस्यचित् तु अथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः ॥१-३४-५॥

स पिता मम काकुत्स्थ गाधिः परम धार्मिकः ।
कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन ॥१-३४-६॥

पूर्वजा भगिनी च अपि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥

सशरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥

दिव्या पुण्य उदका रम्या हिमवंतम् उपाश्रिता ।
लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम ॥१-३४-९॥

ततो अहम् हिमवत् पार्श्वे वसामि नियतः सुखम् ।
भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन ॥१-३४-१०॥

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरिताम् वरा ॥१-३४-११॥

अहम् हि नियमात् राम हित्वा ताम् समुपागतः ।
सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा ॥१-३४-१२॥

एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि ॥१-३४-१३॥

गतो अर्ध रात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः ॥१-३४-१४॥

निष्पन्दाः तरवः सर्वे निलीना मृग पक्षिणः ।
नैशेन तमसा व्याप्ता दिशः च रघुनंदन ॥१-३४-१५॥

शनैः विसृज्यते संध्या नभो नेत्रैः इव आवृतम् ।
नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते ॥१-३४-१६॥

उत्तिष्ठते च शीतांशुः शशी लोक तमो नुदः ।
ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया ॥१-३४-१७॥

नैशानि सर्व भूतानि प्रचरंति ततः ततः ।
यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः ॥१-३४-१८॥

एवम् उक्त्वा महातेजा विरराम महामुनिः ।
साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् ॥१-३४-१९॥

कुशिकनाम् अयम् वंशो महान् धर्मपरः सदा ।
ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम ॥१-३४-२०॥

विशेषेण भवान् एव विश्वामित्र महायशः ।
कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव ॥१-३४-२१॥

मुदितैः मुनि शार्दूलैः प्रशस्तः कुशिक आत्मजः ।
निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् ॥१-३४-२२॥

रामो अपि सह सौमित्रिः किंचित् आगत विस्मयः ।
प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते ॥१-३४-२३॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥