रामायणम्/बालकाण्डम्/सर्गः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १८ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

पुत्रत्वम् तु गते विष्णौ राज्ञः तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयंभूः भगवान् इदम् ॥१-१७-१॥

सत्य संधस्य वीरस्य सर्वेषाम् नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वम् काम रूपिणः ॥१-१७-२॥

माया विदः च शूराम् च वायु वेग समान् जवे ।
नयज्ञान् बुद्धि संपन्नान् विष्णु तुल्य पराक्रमान् ॥१-१७-३॥

असंहार्यान् उपायज्ञान् दिव्य संहनन अन्वितान् ।
सर्व अस्त्र गुण संपन्नानन् अमृत प्राशनान् इव ॥१-१७-४॥

अप्सरस्सु च मुख्यासु गन्धर्वाणाम् तनूषु च ।
यक्ष पन्नग कन्यासु ऋक्ष विद्याधरीषु च ॥१-१७-५॥

किंनरीणाम् च गात्रेषु वानरीनाम् तनूसु च ।
सृजध्वम् हरि रूपेण पुत्रान् तुल्य पराक्रमान् ॥१-१७-६॥

पूर्वम् एव मया सृष्टो जांबवान् ऋक्ष पुङ्गवः ।
जृंभमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥

ते तथा उक्ताः भगवता तत् प्रति श्रुत्य शासनम् ।
जनयामासुः एवम् ते पुत्रान् वानर रूपिणः ॥१-१७-८॥

ऋषयः च महात्मानः सिद्ध विद्याधर उरगाः ।
चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ॥१-१७-९॥

वानरेन्द्रम् महेन्द्र आभम् इन्द्रः वालिनम् आत्मजम् ।
सुग्रीवम् जनयामास तपनः तपताम् वरः ॥१-१७-१०॥

बृहस्पतिः तु अजनयत् तारम् नाम महा कपिम् ।
सर्व वानर मुख्यानाम् बुद्धिमन्तम् अनुत्तमम् ॥१-१७-११॥

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा तु अजनयन् नलम् नाम महा कपिम् ॥१-१७-१२॥

पावकस्य सुतः श्रीमान् नीलः अग्नि सदृश प्रभः ।
तेजसा यशसा वीर्यात् अत्यरिच्यत वीर्यवान् ॥१-१७-१३॥

रूप द्रविण संपन्नौ अश्विनौ रूपसंमतौ ।
मैन्दम् च द्विविदम् च एव जनयामासतुः स्वयम् ॥१-१७-१४॥

वरुणो जनयामास सुषेणम् नाम वानरम् ।
शरभम् जनयामास पर्जन्यः तु महाबलः ॥१-१७-१५॥

मारुतस्य औरसः श्रीमान् हनुमान् नाम वानरः ।
वज्र संहननोपेतो वैनतेय समः जवे ॥१-१७-१६॥

सर्व वानर मुख्येषु बुद्धिमान् बलवान् अपि ।
ते सृष्टा बहु साहस्रा दशग्रीव वधे उद्यताः ॥१-१७-१७॥

अप्रमेय बला वीरा विक्रान्ताः काम रूपिणः ।
ते गज अचल संकाशा वपुष्मंतो महाबलाः ॥१-१७-१८॥

ऋक्ष वानर गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे ।
यस्य देवस्य यद् रूपम् वेषो यः च पराक्रमः ॥१-१७-१९॥

अजायत समम् तेन तस्य तस्य पृथक् पृथक् ।
गोलान्गूलेषु च उत्पन्नाः किंचिद् उन्नत विक्रमाः ॥१-१७-२०॥

ऋक्षीषु च तथा जाता वानराः किंनरीषु च ।
देवा महर्षि गन्धर्वाः तार्क्ष्य यक्षा यशस्विनः ॥१-१७-२१॥

नागाः किम्पुरुषाः च एव सिद्ध विद्याधर उरगाः ।
बहवो जनयामासुः हृष्टाः तत्र सहस्रशः ॥१-१७-२२॥

चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ।
वानरान् सु महाकायान् सर्वान् वै वन चारिणः ॥१-१७-२३॥

अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च ।
नाग कन्यासु च तदा गन्धर्वीणाम् तनूषु च ।
काम रूप बलोपेता यथा काम विचारिणः ॥१-१७-२४॥

सिंह शार्दूल सदृशा दर्पेण च बलेन च ।
शिला प्रहरणाः सर्वे सर्वे पर्वत योधिनः ॥१-१७-२५॥

नख दन्ष्ट्र आयुधाः सर्वे सर्वे सर्व अस्त्र कोविदाः ।
विचाल येयुः शैलेन्द्रान् भेद येयुः स्थिरान् द्रुमान् ॥१-१७-२६॥

क्षोभ येयुः च वेगेन समुद्रम् सरिताम् पतिम् ।
दार येयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा अर्णवन् ॥१-१७-२७॥

नभस्थलम् विशेयुर् च गृह्णीयुर् अपि तोयदान् ।
गृह्णीयुर् अपि मातंगान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥

नर्दमानाः च नादेन पात येयुः विहंगमान् ।
ईदृशानाम् प्रसूतानि हरीणाम् काम रूपिणाम् ॥१-१७-२९॥

शतम् शत सहस्राणि यूथपानाम् महात्मनाम् ।
ते प्रधानेषु यूथेषु हरीणाम् हरियूथपाः ॥१-१७-३०॥

बभूवुर् यूथप श्रेष्ठान् वीराम् च अजनयन् हरीन् ।
अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ॥१-१७-३१॥

अन्ये नाना विधान् शैलान् काननानि च भेजिरे ।
सूर्य पुत्रम् च सुग्रीवम् शक्र पुत्रम् च वालिनम् ॥१-१७-३२॥

भ्रातरौ उपतस्थुः ते सर्वे च हरि यूथपाअः ।
नलम् नीलम् हनूमन्तम् अन्यांश्च हरि यूथपान् ॥१-१७-३३॥

ते तार्क्ष्य बल संपन्नाः सर्वे युद्ध विशारदाः ।
विचरन्तोऽर्दयन् सर्वान् सिंह व्याघ्र महोरगान् ॥१-१७-३४॥

महाबलो महाबाहुः वाली विपुल विक्रमः ।
जुगोप भुज वीर्येण ऋक्ष गोपुच्छ वानरान् ॥१-१७-३५॥

तैः इयम् पृध्वी शूरैः सपर्वत वन अर्णवा ।
कीर्णा विविध संस्थानैः नाना व्यंजन लक्षणैः ॥१-१७-३६॥

तैः मेघ बृन्दाचल कूट संनिभैः
महाबलैः वानर यूथप अधिपैः ।
बभूव भूः भीम शरीर रूपैः
समावृता राम सहाय हेतोः ॥१-१७-३७॥

इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे सप्तदशः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥