रामायणम्/बालकाण्डम्/सर्गः ७५
← सर्गः ७४ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ७६ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥
राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम् ।
धनुषो भेदनम् चैव निखिलेन मया श्रुतम् ॥१-७५-१॥
तत् अद्भुतम् अचिंत्यम् च भेदनम् धनुषः तथा ।
तत् श्रुत्वा अहम् अनुप्राप्तो धनुर् गृह्य अपरम् शुभम् ॥१-७५-२॥
तत् इदम् घोर संकाशम् जामदग्न्यम् महत् धनुः ।
पूरयस्व शरेण एव स्व बलम् दर्शयस्व च ॥१-७५-३॥
तत् अहम् ते बलम् दृष्ट्वा धनुषो अपि अस्य पूरणे ।
द्वंद्व युद्धम् प्रदास्यामि वीर्य श्लाघ्यम् अहम् तव ॥१-७५-४॥
तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा ।
विषण्ण वदनो दीनः प्रांजलिः वाक्यम् अब्रवीत् ॥१-७५-५॥
क्षत्र रोषात् प्रशांतः त्वम् ब्राह्मणः च महातपाः ।
बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि ॥१-७५-६॥
भार्गवाणाम् कुले जातः स्वाध्याय व्रत शालिनाम् ।
सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्ष्द् इप्तवान् असि ॥१-७५-७॥
स त्वम् धर्म परो भूत्वा काश्यपाय वसुंधराम् ।
दत्त्वा वनम् उपागम्य महेन्द्र कृत केतनः ॥१-७५-८॥
मम सर्व विनाशाय संप्राप्तः त्वम् महामुने ।
न च एकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥१-७५-९॥
ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत ॥१-७५-१०॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक अभिपूजिते ।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥१-७५-११॥
अनिसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे ।
त्रिपुर घ्नम् नरश्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया ॥१-७५-१२॥
इदम् द्वितीयम् दुर्धर्षम् विष्णोर् दत्तम् सुरोत्तमैः ।
तत् इदम् वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-१३॥
समान सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम् ।
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१-७५-१४॥
शिति कण्ठस्य विष्णोः च बल अबल निरीक्षया ।
अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः ॥१-७५-१५॥
विरोधम् जनयामास तयोः सत्यवताम् वरः ।
विरोधे तु महत् युद्धम् अभवत् रोम हर्षणम् ॥१-७५-१६॥
शिति कण्ठस्य विष्णोः च परस्पर जय एषिणोः ।
तदा तु जृम्भितम् शैवम् धनुः भीम पराक्रमम् ॥१-७५-१७॥
हुम् कारेण महादेवः स्तम्भितो अथ त्रिलोचनः ।
देवैः तदा समागम्य स ऋषि सन्घैः स चारणैः ॥१-७५-१८॥
याचितौ प्रशमम् तत्र जग्मतुः तौ सुर उत्तमौ ।
जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु पराक्रमैः ॥१-७५-१९॥
अधिकम् मेनिरे विष्णुम् देवाः स ऋषि गणाः तदा ।
धनू रुद्रः तु संक्रुद्धो विदेहेषु महायशाः ॥१-७५-२०॥
देवरातस्य राज ऋषेः ददौ हस्ते स सायकम् ।
इदम् च वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-२१॥
ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम् ।
ऋचीकः तु महातेजाः पुत्रस्य अप्रतिकर्मणः ॥१-७५-२२॥
पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः ।
न्यस्त शस्त्रे पितरि मे तपो बल समन्विते ॥१-७५-२३॥
अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः ।
वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् ।
क्षत्रम् उत्सादयन् रोषात् जातम् जातम् अनेकशः ॥१-७५-२४॥
पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने ।
यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य कर्मणे ॥१-७५-२५॥
दत्त्वा महेन्द्र निलयः तपो बल समन्वितः ।
श्रुत्वा तु धनुषो भेदम् ततो अहम् द्रुतम् आगतः ॥१-७५-२६॥
तत् एवम् वैष्णवम् राम पितृ पैतामहम् महत् ।
क्षत्र धर्मम् पुरस् कृत्य गृह्णीष्व धनुर् उत्तमम् ॥१-७५-२७॥
योजयस्व धनुः श्रेष्ठे शरम् पर पुरम् जयम् ।
यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततः ॥१-७५-२८॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।