रामायणम्/बालकाण्डम्/सर्गः ६७
← सर्गः ६६ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ६८ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥
ततः स राजा जनकः सचिवान् व्यादिदेश ह ।
धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।
तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥
नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।
मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥
ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।
सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥
इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।
मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥
तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।
विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥
इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।
राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥
न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः ।
गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥
क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥
तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।
दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥
विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥
महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।
मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥
इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।
यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥
बाढम् इति एव तम् राजा मुनिः च समभाषत ।
लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥
पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।
आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥
आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् ।
तत् बभंज धनुर् मध्ये नरश्रेष्ठो महायशाः ॥१-६७-१७॥
तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।
भूमि कंपः च सुमहान् पर्वतस्य इव दीर्यतः ॥१-६७-१८॥
निपेतुः च नराः सर्वे तेन शब्देन मोहिताः ।
व्रजयित्वा मुनि वरम् राजानम् तौ च राघवौ ॥१-६७-१९॥
प्रति आश्वस्तो जने तस्मिन् राजा विगत साध्वसः ।
उवाच प्रांजलिः वाक्यम् वाक्यज्ञो मुनिपुंगवम् ॥१-६७-२०॥
भगवन् दृष्ट वीर्यो मे रामो दशरथ आत्मजः ।
अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥
जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।
सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥
मम सत्या प्रतिज्ञा सा वीर्य शुल्का इति कौशिक ।
सीता प्राणैः बहुमता देया रामाय मे सुता ॥१-६७-२३॥
भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।
मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः ॥१-६७-२४॥
राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।
प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥
मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।
प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥
कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः
।
अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।
यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।