रामायणम्/बालकाण्डम्/सर्गः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४१ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥

देवतानाम् वचः श्रुत्वा भगवान् वै पितामहः ।
प्रत्युवाच सुसंत्रस्तान् कृतान्त बल मोहितान् ॥१-४०-१॥

यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः।
महिषी माधवसय स एषा स एव भगवन् प्रभुः॥१-४०-२॥
कापिलम् रूपम् आस्थाय धारयत्य अनिशम् धराम् ।
तस्य कोपाग्निना दग्धा भविष्यंति नृपात्मजा ॥१-४०-३॥

पृथिव्याः च अपि निर्भेदो दृष्ट एव सनातनः ।
सगरस्य च पुत्राणाम् विनाशो दीर्घ दर्शिनाम् ॥१-४०-४॥

पितामह वचः श्रुत्वा त्रयः त्रिंशत् अरिन्दमः ।
देवाः परम संहृष्टाः पुनर् जग्मुर् यथा आगतम् ॥१-४०-५॥

सगरस्य च पुत्राणाम् प्रादुर् आसीत् महास्वनः ।
पृथिव्याम् भिद्यमानायाम् निर्घात सम निःवनः ॥१-४०-६॥

ततो भित्त्वा महीम् सर्वाम् कृत्वा च अपि प्रदक्षिणम् ।
सहिताः सगराः सर्वे पितरम् वाक्यम् अब्रुवन् ॥१-४०-७॥

परिक्रांता मही सर्वा सत्त्ववन्तः च सूदिताः ।
देव दानव रक्षांसि पिशाच उरग पन्नगाः ॥१-४०-८॥
न च पश्यामहे अश्वम् ते अश्व हर्तारम् एव च ।
किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम् ॥१-४०-९॥

तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् राज सत्तमः ।
समन्युः अब्रवीत् वाक्यम् सगरो रघुनंदन ॥१-४०-१०॥

भूयः खनत भद्रम् वो विभेद्य वसुधा तलम्
अश्व हर्तारम् आसाद्य कृतार्थाः च निवर्तत ॥१-४०-११॥

पितुर् वचनम् आसाद्य सगरस्य महात्मनः ।
षष्टिः पुत्र सहस्राणि रसातलम् अभिद्रवन् ॥१-४०-१२॥

खन्यमाने ततः तस्मिन् ददृशुः पर्वत उपमम् ।
दिशा गजम् विरूपाक्षम् धारयंतम् महीतलम् ॥१-४०-१३॥

स पर्वत वनाम् कृत्स्नाम् पृथिवीम् रघुनंदन ।
धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥

यदा पर्वणि काकुत्स्थ विश्रमार्थम् महागजः ।
खेदात् चालयते शीर्षम् भूमि कम्पः तदा भवेत् ॥१-४०-१५॥

ते तम् प्रदक्षिणम् कृत्वा दिशा पालम् महागजम् ।
मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् ॥१-४०-१६॥

ततः पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः ।
दक्षिणस्याम् अपि दिशि ददृशुः ते महागजम् ॥१-४०-१७॥
महा पद्मम् महात्मानम् सुमहा पर्वतोपमम् ।
शिरसा धारयंतम् गाम् विस्मयम् जग्मुर् उत्तमम् ॥१-४०-१८॥

ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः ।
षष्टिः पुत्र सहस्राणि पश्चिमाम् बिभिदुर् दिशम् ॥१-४०-१९॥

पश्चिमायाम् अपि दिशि महांतम् अचलोपमम् ।
दिशा गजम् सौमनसम् ददृशुः ते महा बलाः ॥१-४०-२०॥

ते तम् प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् ।
खनंतः समुपक्रांता दिशम् सोमवतीम् तदा ॥१-४०-२१॥

उत्तरस्याम् रघुश्रेष्ठ ददृशुर् हिम पाण्डुरम् ।
भद्रम् भद्रेण वपुषा धारयंतम् महीम् इमाम् ॥१-४०-२२॥

समालभ्य ततः सर्वे कृत्वा च एनम् प्रदक्षिणम् ।
षष्टिः पुत्र सहस्राणि बिभिदुर् वसुधा तलम् ॥१-४०-२३॥

ततः प्राक् उत्तराम् गत्वा सागराः प्रथिताम् दिशम् ।
रोषात् अभ्यखनन् सर्वे पृथिवीम् सगर आत्मजाः ॥१-४०-२४॥

ते तु सर्वे महत्मानो भिमवेग महबलाः ।
ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् ॥१-४०-२५॥
हयम् च तस्य देवस्य चरन्तम् अविदूरतः ।
प्रहर्षम् अतुलम् प्रप्तः सर्वे ते रघुनंदन ॥१-४०-२६॥

ते तम् हय हरम् ज्ञात्वा क्रोध पर्याकुल ईक्षणाः ।
खनित्र लांगला धर नाना वृक्ष शिला धराः ॥१-४०-२७॥
अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठ इति च अब्रुवन् ।

अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि ॥१-४०-२८॥
दुर्मेधः त्वम् हि संप्राप्तान् विद्धि नः सगरात्मजान् ।

श्रुत्वा तत् वचनम् तेषाम् कपिलो रघुनंदन ॥१-४०-२९॥
रोषेण महता आविष्टो हुम् कारम् अकरोत् तदा ।

ततः तेन अप्रमेयेण कपिलेन महात्मना ।
भस्म राशी कृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥