रामायणम्/बालकाण्डम्/सर्गः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

मुनेर् वचनम् अक्लीबम् श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥

पितुर् वचन निर्देशात् पितुर् वचन गौरवात् ।
वचनम् कौशिकस्य इति कर्तव्यम् अविशङ्कया ॥१-२६-२॥

अनुशिष्टो अस्मि अयोध्यायाम् गुरु मध्ये महात्मना ।
पित्रा दशरथेन अहम् न अवज्ञेयम् च तद् वचः ॥१-२६-३॥

सोऽहम् पितुर्वचः श्रुत्वा शासनाद् ब्रह्म वादिनः ।
करिष्यामि न संदेहः ताटका वधम् उत्तमम् ॥१-२६-४॥

गो ब्राह्मण हितार्थाय देशस्य च हिताय च ।
तव चैव अप्रमेयस्य वचनम् कर्तुम् उद्यतः ॥१-२६-५॥

एवम् उक्त्वा धनुर्मध्ये बध्वा मुष्टिम् अरिन्दमः ।
ज्या घोषम् अकरोत् तीव्रम् दिशः शब्देन नादयन् ॥१-२६-६॥

तेन शब्देन वित्रस्ताः ताटका वन वासिनः ।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥

तम् शब्दम् अभिनिध्याय राक्षसी क्रोध मूर्चिता ।
श्रुत्वा च अभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिस्सृतः ॥१-२६-८॥

ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत आननाम् ।
प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सोऽभ्यभाषत ॥१-२६-९॥

पश्य लक्ष्मण यक्षिण्या भैरवम् दारुणम् वपुः ।
भिद्येरन् दर्शनात् अस्या भीरूणाम् हृदयानि च ॥१-२६-१०॥

एताम् पश्य दुराधर्षाम् माया बल समन्विताम् ।
विनिवृत्ताम् करोमि अद्य हृत कर्णाग्र नासिकाम् ॥१-२६-११॥

न हि एनाम् उत्सहे हन्तुम् स्त्री स्वभावेन रक्षिताम् ।
वीर्यम् च अस्या गतिम् च एव हन्यताम् इति मे मतिः ॥१-२६-१२॥

एवम् ब्रुवाणे रामे तु ताटका क्रोध मूर्छिता ।
उद्यम्य बाहूम् गर्जन्ती रामम् एव अभ्यधावत ॥१-२६-१३॥

विश्वामित्रस्तु ब्रह्मर्षिः हुंकारेणा अभिभर्त्स्य ताम् ।
स्वस्ति राघवयोः अस्तु जयम् च एव अभ्यभाषत ॥१-२६-१४॥

उद् धुन्वाना रजो घोरम् ताटका राघवौ उभौ ।
रजो मेघेन महता मुहूर्तम् सा व्यमोहयत् ॥१-२६-१५॥

ततो मायाम् समास्थाय शिला वर्षेण राघवौ ।
अवाकिरत् सुमहता ततः चुक्रोध राघवः ॥१-२६-१६॥

शिला वर्षम् महत् तस्याः शर वर्षेण राघवः ।
प्रतिवार्यो अपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥

ततः च्छिन्न भुजाम् श्रान्ताम् अभ्याशे परिगर्जतीम् ।
सौमित्रिः अकरोत् क्रोधात् हृत कर्णाग्र नासिकाम् ॥१-२६-१८॥

काम रूपधरा सा तु कृत्वा रूपाणि अनेकशः ।
अन्तर्धानम् गता यक्षी मोहयन्ति स्व मायया ॥१-२६-१९॥
अश्म वर्षम् विमुंचन्ती भैरवम् विचचार सा ॥

ततः तौ अश्म वर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
दृष्ट्वा गाधि सुतः श्रीईमान् इदम् वचनम् अब्रवीत् ।

अलम् ते घृणया राम पापा एषा दुष्ट चारिणी ॥१-२६-२१॥
यज्ञ विघ्न करी यक्षी पुरा वर्धेत मायया ।

वध्यताम् तावत् एव एषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
रक्षांसि संध्या काले तु दुर्धर्षाणि भवन्ति हि ।

इति उक्तः स तु ताम् यक्षीम् अश्म वृष्ट्या अभिवर्षणीम् ॥१-२६-२३॥
दर्शयन् शब्द वेधित्वम् ताम् रुरोध स सायकैः ।

सा रुद्धा बाण जालेन माया बल समन्विता ॥१-२६-२४॥
अभि दुद्राव काकुत्स्थम् लक्षमणम् च विनेषुदी ॥

ताम् आपतन्तीम् वेगेन विक्रान्ताम् अशनीम् इव ॥१-२६-२५॥
शरेण उरसि विव्याध सा पपात ममार च ।

ताम् हताम् भीम संकाशाम् दृष्ट्वा सुरपतिः तदा ॥१-२६-२६॥
साधु साध्विति काकुत्स्थम् सुराः च अपि अभिपूजयन् ।

उवाच परम प्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
सुराः च सर्वे संहृष्टा विश्वामित्रम् अथ अब्रुवन् ।

मुने कौशिक भद्रम् ते सह इन्द्राः सर्वे मरुद् गणाः ॥१-२६-२८॥
तोषिताः कर्मणा अनेन स्नेहम् दर्शय राघवे ।

प्रजापतेः कृशाश्वस्य पुत्रान् सत्य पराक्रमान् ॥१-२६-२९॥
तपो बल भृतो ब्रह्मन् राघवाय निवेदय ।

पात्रभूतः च ते ब्रह्मन् तव अनुगमने रतः ॥१-२६-३०॥
कर्तव्यम् सुमहत् कर्म सुराणाम् राज सूनुना ।

एवम् उक्त्वा सुराः सर्वे जग्मुर् हृष्टा विहायसम् ॥१-२६-३१॥
विश्वामित्रम् पूजयन् ततः संध्या प्रवर्तते ।

ततो मुनिवरः प्रीतः ताटका वध तोषितः ॥१-२६-३२॥
मूर्ध्नि रामम् उपाघ्राय इदम् वचनम् अब्रवीत् ।

इह अद्य रजनीम् राम वसाम शुभ दर्शन ॥१-२६-३३॥
श्वः प्रभाते गमिष्यामः तद् आश्रम पदम् मम ।

विश्वामित्रः वचः श्रुत्वा हृष्टो दशरधात्मजः ॥१-२६-३४॥
उवास रजनीम् तत्र ताटकाया वने सुखम् ।

मुक्त शापम् वनम् तत् च तस्मिन् एव तत् आहनि ।
रमणीयम् विबभ्राज यथा चैत्र रथम् वनम् ॥१-२६-३५॥

निहत्य ताम् यक्ष सुताम् स रामः
प्रशस्यमानः सुर सिद्ध सन्घैः ।
उवास तस्मिन् मुनिना सह एव
प्रभात वेलाम् प्रति बोध्यमानः ॥१-२६-३६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥