रामायणम्/बालकाण्डम्/सर्गः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ५१ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥

ततः प्राक् उत्तराम् गत्वा रामः सौमित्रिणा सह ।
विश्वामित्रम् पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-५०-१॥

रामः तु मुनि शार्दूलम् उवाच सह लक्ष्मणः ।
साध्वी यज्ञ समृद्धिः हि जनकस्य महात्मनः ॥१-५०-२॥

बहूनि इह सहस्राणि नाना देश निवासिनाम् ।
ब्राह्मणानाम् महाभाग वेद अध्ययन शालिनाम् ॥१-५०-३॥
ऋषि वाटाः च दृश्यन्ते शकटी शत संकुलाः ।
देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम् ॥१-५०-४॥

रामस्य वचनम् श्रुत्वा विश्वामित्रो महामुनिः ।
निवेशम् अकरोत् देशे विविक्ते सलिल आयुते ॥१-५०-५॥

विश्वामित्रम् अनुप्राप्तम् श्रुत्वा नृपवरः तदा ।
शतानंदम् पुरस्कृत्य पुरोहितम् अनिन्दितम् ॥१-५०-६॥
प्रति उज्जगाम सहसा विनयेन समन्वितः ।

ऋत्विजो अपि महात्मानः तु अर्घ्यम् आदाय स त्वरम् ॥१-५०-७॥
विश्वामित्राय धर्मेण ददौ धर्म पुरस्कृतम् ।

प्रतिगृह्य तु ताम् पूजाम् जनकस्य महात्मनः ॥१-५०-८॥
पप्रच्छ कुशलम् राज्ञो यज्ञस्य च निरामयम् ।

स ताम् च अथ मुनीन् पृष्ट्वा स उपाध्याय पुरोधसः ॥१-५०-९॥
यथा अर्हम् ऋषिभिः सर्वैः समागच्छत् प्रहृष्टवत् ।

अथ राजा मुनि श्रेष्ठम् कृत अंजलिः अभाषत ॥१-५०-१०॥
आसने भगवान् आस्ताम् सह एभिः मुनि सत्तमैः ।

जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥१-५०-११॥
पुरोधा ऋत्विजः चैव राजा च सह मंत्रिभिः ।

आसनेषु यथा न्यायम् उपविष्टान् समन्ततः ॥१-५०-१२॥
दृष्ट्वा स नृपतिः तत्र विश्वामित्रम् अथ अब्रवीत् ।

अद्य यज्ञ समृद्धिः मे सफला दैवतैः कृता ॥१-५०-१३॥
अद्य यज्ञ फलम् प्राप्तम् भगवद् दर्शनात् मया ।

धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनि पुंगव ॥१-५०-१४॥
यज्ञ उपसदनम् ब्रह्मन् प्राप्तो असि मुनिभिः सह ।

द्वादश अहम् तु ब्रह्मर्षे दीक्षाम् आहुः मनीषिणः ॥१-५०-१५॥
ततो भाग अर्थिनो देवान् द्रष्टुम् अर्हसि कौशिक ।

इति उक्त्वा मुनि शार्दूलम् प्रहृष्ट वदनः तदा ॥१-५०-१६॥
पुनः तम् परिपप्रच्छ प्रांजलिः प्रयतो नृपः ।

इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ॥१-५०-१७॥
गज तुल्य गती वीरौ शार्दूल वृषभ उपमौ ।
पद्म पत्र विशाल अक्षौ खड्ग तूणी धनुर् धरौ ।
अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-५०-१८॥
यदृच्छया एव गाम् प्राप्तौ देव लोकात् इव अमरौ ।
कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-५०-१९॥

वर आयुध धरौ वीरौ कस्य पुत्रौ महामुने ।
भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ॥१-५०-२०॥
परस्परस्य सदृशौ प्रमाण इन्गित चेष्टितैः ।
काक पक्ष धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-५०-२१॥

तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः ।
न्यवेदयत् अमेय आत्मा पुत्रौ दशरथस्य तौ ॥१-५०-२२॥

सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ।
तत्र आगमनम् अव्यग्रम् विशालायाः च दर्शनम् ॥१-५०-२३॥
अहल्या दर्शनम् चैव गौतमेन समागमम् ।
महाधनुषि जिज्ञासाम् कर्तुम् आगमनम् तथा ॥१-५०-२४॥
एतत् सर्वम् महातेजा जनकाय महात्मने ।
निवेद्य विरराम अथ विश्वामित्रो महामुनिः ॥१-५०-२५॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥