रामायणम्/बालकाण्डम्/सर्गः ७०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ७१ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥

ततः प्रभाते जनकः कृत कर्मा महर्षिभिः ।
उवाच वाक्यम् वाक्यज्ञः शतानंदम् पुरोहितम् ॥१-७०-१॥

भ्राता मम महातेजा यवीयान् अतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीम् अध्यवसत् शुभाम् ॥१-७०-२॥
वार्या फलक पर्यन्ताम् पिबन् इक्षुमतीम् नदीम् ।
सांकाश्याम् पुण्य संकाशाम् विमानम् इव पुष्पकम् ॥१-७०-३॥

तम् अहम् द्रष्टुम् इच्छामि यज्ञ गोप्ता स मे मतः ।
प्रीतिम् सो अपि महातेजा इमाम् भोक्ता मया सह ॥१-७०-४॥

एवम् उक्तो तु वचने शतानंदस्य संनिधौ ।
आगताः केचिद् अव्यग्रा जनकः तान् समादिशत् ॥१-७०-५॥

शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र वाजिभिः ।
समानेतुम् नरव्याघ्रम् विष्णुम् इन्द्र आज्ञया यथा ॥१-७०-६॥

संकास्याम् ते समागम्य ददृशुः च कुश्ध्वजम् ।
न्यवेदयन् यथा वृत्तम् जनकस्य च चिन्तितम् ॥१-७०-७॥

तद् वृत्तम् नृपतिः श्रुत्वा दूत श्रेष्ठैः महा जवैः ।
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥१-७०-८॥

स ददर्श महात्मानम् जनकम् धर्म वत्सलम् ।
सो अभिवाद्य शतानंदम् जनकम् च अति धार्मिकम् ॥१-७०-९॥
राज अर्हम् परमम् दिव्यम् आसनम् च अध्यरोहत ।

उपविष्टौ उभौ तौ तु भ्रातरौ अमित ओजसौ ॥१-७०-१०॥
प्रेषयामासतुः वीरौ मन्त्रि श्रेष्ठम् सुदामनम् ।

गच्छ मंत्रि पते शीघ्रम् इक्ष्वाकम् अमित प्रभम् ॥१-७०-११॥
आत्मजैः सह दुर्धर्षम् आनयस्व स मंत्रिणम् ।

औपकार्याम् स गत्वा तु रघूणाम् कुल वर्धनम् ॥१-७०-१२॥
ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत् ।

अयोध्या अधिपते वीर वैदेहो मिथिला अधिपः ॥१-७०-१३॥
स त्वाम् द्रष्टुम् व्यवसितः स उपाध्याय पुरोहितम् ।

मंत्रि श्रेष्ठ वचः श्रुत्वा राजा स ऋषि गणः तदा ॥१-७०-१४॥
स बन्धुः अगमत् तत्र जनको यत्र वर्तते ।

राजा च मंत्रि सहितः स उपाध्यायः स बांधवः ॥१-७०-१५॥
वाक्यम् वाक्य विदाम् श्रेष्ठो वैदेहम् इदम् अब्रवीत् ।

विदितम् ते महाराज इक्ष्वाकु कुल दैवतम् ॥१-७०-१६॥
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः ।

विश्वामित्र अभ्यनुज्ञातः सह सर्वैः महर्षिभिः ॥१-७०-१७॥
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथा क्रमम् ।
तूष्णीम् भूते दशरथे वसिष्ठो भगवान् ऋषिः ॥१-७०-१८॥
उवाच वाक्यम् वाक्यज्ञो वैदेहम् स पुरोधसाम् ।

अव्यक्त प्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१-७०-१९॥
तस्मात् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ।
विवस्वान् कश्यपात् जज्ञे मनुर् वैवस्वतः स्मृतः ॥१-७०-२०॥

मनुः प्रजापतिः पूर्वम् इक्ष्वाकुः च मनोः सुतः ।
तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥१-७०-२१॥

इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः इति एव विश्रुतः ।
कुक्षेः अथ आत्मजः श्रीमान् विकुक्षिः उपपद्यत ॥१-७०-२२॥

विकुक्षेः तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥१-७०-२३॥

अनरण्यात् पृथुः जज्ञे त्रिशंकुः तु पृथोः सुतः ।
त्रिशंकोः अभवत् पुत्रो धुन्धुमारः महायशाः ॥१-७०-२४॥

धुन्धुमारात् महातेजा युवनाश्वो महारथः ।
युवनाश्व सुतः असीत् मान्धाता पृथिवी पतिः ॥१-७०-२५॥

मान्धातुः तु सुतः श्रीमान् सुसन्धिः उदपद्यत ।
सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥१-७०-२६॥

यशस्वी ध्रुवसंधेः तु भरतो नाम नामतः ।
भरतात् तु महातेजा असितो नाम जायत ॥१-७०-२७॥

यस्य एते प्रति राजन उदपत्यन्त शात्रवः ।
हैहय तालजंघाः च शूराः च शशबिंद्वः ॥१-७०-२८॥

तान् च स प्रति युद्ध्यन् वै युद्धे राजा प्रवासितः ।
हिमवन्तम् उपागम्य भार्याभ्याम् सहितः तदा ॥१-७०-२९॥

असितो अल्प बलो राजा काल धर्मम् उपेयिवान् ।
द्वे च अस्य भार्ये गर्भिण्यै बभूवतुः इति श्रुति ॥१-७०-३०॥
एका गर्भ विनाश अर्थम् सपत्नै सगरम् ददौ ।

ततः शैलवरे रम्ये बभूव अभिरतो मुनिः ॥१-७०-३१॥
भार्गव च्यवनो नाम हिमवंतम् उपाश्रितः ।

तत्र च एका महाभागा भार्गवम् देव वर्चसम् ॥१-७०-३२॥
ववन्दे पद्म पत्राक्षी कांक्षन्ती सुतम् उत्तमम् ।

तम् ऋषिम् सा अभ्युपगम्य कालिन्दी च अभ्यवादत ॥१-७०-३३॥
स ताम् अभ्यवदत् विप्रः पुत्र ईप्सुम् पुत्र जन्मनि ।

तव कुक्षौ महाभागे सु पुत्रः सु महाबलः ॥१-७०-३४॥
महावीर्यो महातेजा अचिरात् संजनिष्यति ।
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥१-७०-३५॥

च्यवनम् च नमस्कृत्य राजपुत्री पतिव्रता ।
पत्या विरहिता तस्मात् पुत्रम् देवी व्यजायत ॥१-७०-३६॥

सपत्न्या तु गरः तस्यैः दत्तो गर्भ जिघांसया ।
सह तेन गरेण एव संजातः सगरोइ अभवत् ॥१-७०-३७॥

सगरस्य अस्य असमंजः तु असमंजात् अथ अंशुमान् ।
दिलीपो अंशुमतः पुत्रो दिलीपस्य भगीरथः ॥१-७०-३८॥

भगीरथात् ककुत्स्थः च ककुत्स्थस्य रघुः तथा ।
रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः ॥१-७०-३९॥
कल्माषपादो हि अभवत् तस्मात् जातः तु शङ्खणः ।

सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् ॥१-७०-४०॥
शीघ्रगः तु अग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
मरोः प्रशुश्रुकः तु आसीत् अंबरीषः प्रशुश्रुकात् ॥१-७०-४१॥

अंबरीषस्य पुत्रो अभूत् नहुषः च महीपतिः ।
नहुषस्य ययातिः तु नाभागः तु ययाति जः ॥१-७०-४२॥

नाभागस्य भभूव अज अजात् दशरथो अभवत् ।
अस्मात् दशरथात् जातौ भ्रातरौ राम लक्ष्मणौ ॥१-७०-४३॥

आदि वंश विशुद्धानाम् राज्ञाम् परम धर्मिणाम् ।
इक्ष्वाकु कुल जातानाम् वीराणाम् सत्य वादिनाम् ॥१-७०-४४॥
राम लक्ष्मणयोः अर्थे त्वत् सुते वरये नृप ।
सदृशाभ्याम् नरश्रेष्ठ सदृशे दातुम् अर्हसि ॥१-७०-४५॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥