रामायणम्/बालकाण्डम्/सर्गः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १७ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १९ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥

समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।
प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥

यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।
मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥

श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।
बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥

गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥

शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥

एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।
उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥

ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।
ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥

नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।
ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥

प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।
कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥

विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।
लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥

कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।
यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥

भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।
साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥

अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।
वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥

पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।
सार्पे जातौ तु सौमित्री कुळीरे अभ्युदिते रवौ ॥१-१८-१५॥

राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।
गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥

जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।
देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥

उत्सवः च महान् आसीत् अयोध्यायाम् जनाकुलः ।
रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥

गायनैः च विराविण्यो वादनैः च तथ अपरैः ।
विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥

प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥

अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।
ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥

सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।
वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥

ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।
उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥

तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।
तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥

बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।
सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥

सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।
तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥

इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।
गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥

धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥

रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।
सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥

लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।
न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥

मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।
यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥

अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।
भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥

प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।
स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥

बभूव परम प्रीतो देवैः इव पितामहः ।
ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥

ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।
तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥

पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।
अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥

चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।
तस्य चिंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥

अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।
स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥

शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।
तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥

संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।
ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥

प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।
तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥

प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।
तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥

प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।
स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥

कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥

कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥

दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।
वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥

ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।
ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥

विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।
अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥

उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।
यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥

यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥

तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।
कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥

पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।
अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥

यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।
पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥

ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।
तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥

शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥

इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।
कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥

कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।
मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।
तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥

इति हृदय सुखम् निशम्य वाक्यम् श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।
प्रथित गुण यशा गुणैः विशिष्टः परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥