रामायणम्/बालकाण्डम्/सर्गः ६४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६३ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६५ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६४.००१
लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६४.००१
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता १.०६४.००२
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् १.०६४.००२
अयं सुरपते घोरो विश्वामित्रो महामुनिः १.०६४.००३
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः १.०६४.००३
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि १.०६४.००३
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् १.०६४.००४
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् १.०६४.००४
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे १.०६४.००५
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः १.०६४.००५
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् १.०६४.००६
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् १.०६४.००६
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् १.०६४.००७
लोभयामास ललिता विश्वामित्रं शुचिस्मिता १.०६४.००७
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् १.०६४.००८
संप्रहृष्टेन मनसा तत एनामुदैक्षत १.०६४.००८
अथ तस्य च शब्देन गीतेनाप्रतिमेन च १.०६४.००९
दर्शनेन च रम्भाया मुनिः संदेहमागतः १.०६४.००९
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः १.०६४.०१०
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः १.०६४.०१०
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् १.०६४.०११
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे १.०६४.०११
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः १.०६४.०१२
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् १.०६४.०१२
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः १.०६४.०१३
अशक्नुवन् धारयितुं कोपं संतापमागतः १.०६४.०१३
तस्य शापेन महता रम्भा शैली तदाभवत् १.०६४.०१४
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः १.०६४.०१४
कोपेन स महातेजास्तपोऽपहरणे कृते १.०६४.०१५
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६४.०१५

बभूव अस्य मनः चिंता तपो अपहरणे कृते ।
न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥

अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।
अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥

तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।
अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥
न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।

एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।
चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥