रामायणम्/बालकाण्डम्/सर्गः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ८ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥

तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥

अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥

धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥

ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥

सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥

एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥

श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥

तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥

तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥

कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥

कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥

वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥

ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥

शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥

कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥

सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥

गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥

अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥

मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥

ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥

अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥

विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥

न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥

तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥