रामायणम्/बालकाण्डम्/सर्गः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २४ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २६ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥

अथ तस्य अप्रमेयस्य मुनेर् वचनम् उत्तमम् ।
श्रुत्वा पुरुष शार्दूलः प्रत्युवाच शुभाम् गिरम् ॥१-२५-१॥

अल्प वीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।
कथम् नाग सहस्रस्य धारयति अबला बलम् ॥१-२५-२॥

इति उक्त,म् वचनम् श्रुत्वा राघवस्य अमित ओजसा ।
हर्षयन् श्लक्ष्णया वचा स लक्ष्मणम् अरिन्दमम् ॥१-२५-३॥
विश्वामित्रोऽब्रवीत् वाक्यम् शृणु येन बलोत्कटा ।
वर दान कृतम् वीर्यम् धारयति अबला बलम् ॥१-२५-४॥

पूर्वम् आसीत् महा यक्षः सुकेतुर् नाम वीर्यवान् ।
अनपत्यः शुभाचारः स च तेपे महत् तपः ॥१-२५-५॥

पितामहः तु सुप्रीतः तस्य यक्षपतेः तदा ।
कन्या रत्नम् ददौ राम ताटकाम् नाम नामतः ॥१-२५-६॥

ददौ नाग सहस्रस्य बलम् च अस्याः पितामहः ।
न तु एव पुत्रम् यक्षाय ददौ च असौ महायशाः ॥१-२५-७॥

ताम् तु बालाम् विवर्धन्तीम् रूप यौवन शालिनीम् ।
जंभ पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् ॥१-२५-८॥

कस्यचित् तु अथ कालस्य यक्षी पुत्रम् व्यजायत ।
मारीचम् नाम दुर्धर्षम् यः शापात् राक्षसोऽभवत् ॥१-२५-९॥

सुन्दे तु निहते राम सा अगस्त्यम् ऋषि सत्तमम् ।
ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति ॥१-२५-१०॥

भक्षार्थम् जात संरम्भा गर्जन्ती सा अभ्यधावत ।
आपतन्तीम् तु ताम् दृष्ट्वा अगस्त्यो भगवान् ऋषिः ॥१-२५-११॥
राक्षसत्वम् भजस्व इति मारीचम् व्याजहार सः ।

अगस्त्यः परम अमर्षः ताटकाम् अपि शप्तवान् ॥१-२५-१२॥
पुरुषादी महायक्षी विरूपा विकृत आनना ।
इदम् रूपम् विहायाशु दारुणम् रूपम् अस्तु ते ॥१-२५-१३॥

सैषा शाप कृताम् अर्षा ताटका क्रोध मूर्छिता ।
देशम् उत्सादयति एनम् अगस्त्या चरितम् शुभम् ॥१-२५-१४॥

एनाम् राघव दुर्वृत्ताम् यक्षीम् परम दारुणाम् ।
गो ब्राह्मण हितार्थाय जहि दुष्ट पराक्रमाम् ॥१-२५-१५॥

न हि एनाम् शाप संसृष्टाम् कश्चित् उत्सहते पुमान् ।
निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघु नन्दन ॥१-२५-१६॥

न हि ते स्त्री वध कृते घृणा कार्या नरोत्तम ।
चातुर् वर्ण्य हितार्थाम् हि कर्तव्यम् राज सूनुना ॥१-२५-१७॥

नृशंसम् अनृशंसम् वा प्रजा रक्षण कारणात् ।
पातकम् वा सदोषम् वा कर्तव्यम् रक्षता सदा ॥१-२५-१८॥

राज्य भार नियुक्तानाम् एष धर्मः सनातनः ।
अधर्म्याम् जहि काकुत्स्थ धर्मो हि अस्याम् न विद्यते ॥१-२५-१९॥

श्रूयते हि पुरा शक्रो विरोचन सुताम् नृप ।
पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत् ॥१-२५-२०॥

विष्णुना च पुरा राम भृगु पत्नी पतिव्रता ।
अनिन्द्रम् लोकम् इच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥

एतैः च अन्यैः च बहुभी राजपुत्रैः महात्मभिः ।
अधर्म सहिता नार्यो हताः पुरुषसत्तमैः ।
तस्माद् एनाम् घृणाम् त्यक्त्वा जहि मत् शासनान् नृप ॥१-२५-२२॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे पंचविंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥