रामायणम्/बालकाण्डम्/सर्गः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २८ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३० →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥

अथ तस्य अप्रमेयस्य वचनम् परिपृच्छतः ।
विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे ॥१-२९-१॥

इह राम महाबाहो विष्णुर् देव नमस्कृत ।
वर्षाणि सुबहूनि इह तथा युग शतानि च ॥१-२९-२॥
तपः चरण योगार्थम् उवास सु महातपाः ।

एष पूर्व आश्रमो राम वामनस्य महात्मनः ॥१-२९-३॥
सिद्ध आश्रम इति ख्यातः सिद्धो हि अत्र महातपाः ।

एतस्मिन् एव काले तु राजा वैरोचनिर् बलिः ॥१-२९-४॥
निर्जित्य दैवत गणान् स इन्द्रान् स मरुद् गणान् ।
कारयामास तद् राज्यम् त्रिषु लोकेषु विश्रुतः ॥१-२९-५॥

यज्ञम् चकार सुमहान् असुरेन्द्रो महाबलः ।
बलेः तु यजमानस्य देवाः साग्नि पुरोगमाः ।
समागम्य स्वयम् चैव विष्णुम् ऊचुः इह आश्रमे ॥१-२९-६॥

बलिः वैरोचनिः विष्णो यजते यज्ञम् उत्तमम् ।
असमाप्त व्रते तस्मिन् स्व कार्यम् अभिपद्यताम् ॥१-२९-७॥

ये च एनम् अभिवर्तन्ते याचितार इतः ततः ।
यत् च यत्र यथावत् च सर्वम् तेभ्यः प्रयच्छति ॥१-२९-८॥

स त्वम् सुर हितार्थाय माया योगम् उपाश्रितः ।
वामनत्वम् गतो विष्णो कुरु कल्याणम् उत्तमम् ॥१-२९-९॥

एतस्मिन् अनन्तरे राम काश्यपो अग्नि सम प्रभः ।
अदित्या सहितः राम दीप्यमान इव ओजसा ॥१-२९-१०॥
देवी सहायो भगवन् दिव्यम् वर्ष सहस्रकम् ।
व्रतम् समाप्य वरदम् तुष्टाव मधुसूदनम् ॥१-२९-११॥

तपोमयम् तपोराशिम् तपोमूर्तिम् तपात्मकम् ।
तपसा त्वाम् सुतप्तेन पश्यामि पुरोषोत्तमम् ॥१-२९-१२॥

शरीरे तव पश्यामि जगत् सर्वम् इदम् प्रभो ।
त्वम् अनादिः अनिर्देश्यः त्वाम् अहम् शरणम् गतः ॥१-२९-१३॥

तम् उवाच हरिः प्रीतः कश्यपम् धूत कल्मषम् ।
वरम् वरय भद्रम् ते वर अर्हः असि मतो मम ॥१-२९-१४॥

तत् श्रुत्वा वचनम् तस्य मारीचः कश्यपो अब्रवीत् ।
अदित्या देवतानाम् च मम च एव अनुयाचितम् ॥१-२९-१५॥
वरम् वरद सुप्रीतो दातुम् अर्हसि सुव्रत ।

पुत्रत्वम् गच्छ भगवन् अदित्या मम च अनघ ॥१-२९-१६॥
भ्राता भव यवीयान् त्वम् शक्रस्य असुरसूदन ।
शोक आर्तानाम् तु देवानाम् साहाय्यम् कर्तुम् अर्हसि ॥१-२९-१७॥

अयम् सिद्ध आश्रमो नाम प्रसादात् ते भविष्यति ।
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन् इतः ॥१-२९-१८॥

अथ विष्णुर् महातेजाअ आदित्याम् समजायत ।
वामनम् रूपम् आस्थाय वैरोचनिम् उपागमत् ॥१-२९-१९॥

त्रीन् पादान् अथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।
आक्रम्य लोकान् लोकार्थो सर्व लोक हिते रतः ॥१-२९-२०॥
महेन्द्राय पुनः प्रादात् नियम्य बलिम् ओजसा ।
त्रैलोक्यम् स महातेजाः चक्रे शक्र वशम् पुनः ॥१-२९-२१॥

तेन एव पूर्वम् आक्रान्त आश्रमः श्रम नाशनः ।
मया अपि भक्त्या तस्य एव वामनस्य उपभुज्यते ॥१-२९-२२॥

एनम् आश्रमम् आयान्ति राक्षसा विघ्न कारिणः ।
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्ट चारिणः ॥१-२९-२३॥

अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् ।
तत् आश्रम पदम् तात तव अपि एतद् यथा मम ॥१-२९-२४॥

इति उक्त्वा परम प्रीतो गृह्य रामम् स लक्ष्मणम् ।
प्रविशन् आश्रम पदम् व्यरोचत महामुनिः ।
शशी इव गत नीहारः पुनर्वसु समन्वितः ॥१-२९-२५॥

तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रम निवासिनः ।
उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् ॥१-२९-२६॥

यथा अर्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते ।
तथैव राज पुत्राभ्याम् अकुर्वन् अतिथि क्रियाम् ॥१-२९-२७॥

मुहूर्तम् अथ विश्रान्तौ राज पुत्रौ अरिन्दमौ ।
प्रांजली मुनि शार्दूलम् ऊचतू रघुनंदनौ ॥१-२९-२८॥

अद्य एव दीक्षाम् प्रविश भद्रम् ते मुनिपुंगव ।
सिद्धाश्रमो अयम् सिद्धः स्यात् सत्यम् अस्तु वचः तव ॥१-२९-२९॥

एवम् उक्तो महातेजा विश्वामित्रो महानृषिः ।
प्रविवेश तदा दीक्षाम् नियतो नियतेन्द्रियः ॥१-२९-३०॥

कुमारौ एव ताम् रात्रिम् उषित्वा सुसमाहितौ ।
प्रभात काले च उत्थाय पूर्वाम् संध्याम् उपास्य च ॥१-२९-३१॥
प्रशुची परम् जाप्यम् समाप्य नियमेन च ।
हुत अग्निहोत्रम् आसीनम् विश्वमित्रम् अवन्दताम् ॥१-२९-३२॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥