रामायणम्/बालकाण्डम्/सर्गः ६१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६२ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् ।
अब्रवीत् नरशार्दूल सर्वान् तान् वन वासिनः ॥१-६१-१॥

महाविघ्नः प्रवृत्तो अयम् दक्षिणाम् आस्थितो दिशम् ।
दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः ॥१-६१-२॥

पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः ।
सुखम् तपः चरिष्यामः परम् तत् हि तपो वनम् ॥१-६१-३॥

एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रम् दुराधर्षम् तेपे मूल फल अशनः ॥१-६१-४॥

एतस्मिन् एव काले तु अयोध्या अधिपतिः महान् ।
अंबरीष इति ख्यातो यष्टुम् समुपचक्रमे ॥१-६१-५॥

तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् ॥१-६१-६॥

पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात् ।
अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर ॥१-६१-७॥

प्रायः चित्तम् महत् हि एतत् नरम् वा पुरुषर्षभ ।
आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते ॥१-६१-८॥

उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।
अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः ॥१-६१-९॥

देशान् जनपदान् तान् तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१-६१-१०॥
स पुत्र सहितम् तात स भार्यम् रघुनंदन ।
भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह ॥१-६१-११॥

तम् उवाच महातेजाः प्रणम्य अभिप्रसाद्य च ।
महर्षिम् तपसा दीप्तम् राजर्षिः अमित प्रभः ॥१-६१-१२॥
पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः ।

गवाम् शत सहस्रेण विक्रीणीषे सुतम् यदि ॥१-६१-१३॥
पशोः अर्थे महाभाग कृत कृत्यो अस्मि भार्गव ।

सर्वे परिगता देशा यज्ञियम् न लभे पशुम् ॥१-६१-१४॥
दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम ।

एवम् उक्तो महातेजा ऋचीकः तु अब्रवीत् वचः ॥१-६१-१५॥
न अहम् ज्येष्ठम् नर श्रेष्ठ विक्रीणीयाम् कथंचन ।

ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम् ॥१-६१-१६॥
उवाच नर शार्दूलम् अंबरीषम् इदम् वचः ।

अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः ॥१-६१-१७॥
मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो ।
तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव ॥१-६१-१८॥

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातॄणाम् च कनीयांसः तस्मात् रक्षे कनीयसम् ॥१-६१-१९॥

उक्त वाक्ये मुनौ तस्मिन् मुनि पत्न्याम् तथैव च ।
शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत् ॥१-६१-२०॥

पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् ।
विक्रेतम् मध्यमम् मन्ये राजपुत्र नयस्व माम् ॥१-६१-२१॥

अथ राजा महाबाहो वाक्य अन्ते ब्रह्म वादिनः ।
हिरण्यस्य सुवर्णस्य कोटिभी रत्न राशिभिः ॥१-६१-२२॥
गवाम् शत सहस्रेण शुनःशेपम् नरेश्वरः ।
गृहीत्वा परम प्रीतो जगाम रघुनंदन ॥१-६१-२३॥

अंबरीषः तु राजर्षी रथम् आरोप्य सत्वरः ।
शुनःशेपम् महातेजा जगाम आशु महायशाः ॥१-६१-२४॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥