रामायणम्/बालकाण्डम्/सर्गः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ७२ →
रामायणम्/बालकाण्डम्

<poem> श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥

एवम् ब्रुवाणम् जनकः प्रत्युवाच कृतांजलिः ।
श्रोतुम् अर्हसि भद्रम् ते कुलम् नः परिकीर्तितम् ॥१-७१-१॥

प्रदाने हि मुनि श्रेष्ठ कुलम् निरवशेषतः ।
वक्तव्यम् कुल जातेन तन् निबोध महामुने ॥१-७१-२॥

राजा अभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
निमिः परम धर्मात्मा सर्व सत्त्ववताम् वरः ॥१-७१-३॥

तस्य पुत्रो मिथिः नाम जनको मिथि पुत्रकः ।
प्रथमो जनको नाम जनकात् अपि उदावसुः ॥१-७१-४॥

उदावसोः तु धर्मात्मा जातो वै नन्दिवर्धनः ।
नन्दिवर्धन पुत्रः तु सुकेतुः नाम नामतः ॥१-७१-५॥

सुकेतोः अपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेः बृहद्रथ इति स्मृउतः ॥१-७१-६॥

बृहद्रथस्य शूरो अभूत् महावीरः प्रतापवान् ।
महावीरस्य धृतिमान् सुधृतिः सत्य विक्रमः ॥१-७१-७॥

सुधृतेः अपि धर्मात्मा धृष्टकेतुः सु धार्मिकः ।
धृष्टकेतोः च राजर्षेः हर्यश्व इति विश्रुतः ॥१-७१-८॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः ।
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥१-७१-९॥

पुत्रः कीर्तिरथस्य अपि देवमीढ इति स्मृतः ।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥१-७१-१०॥

महीध्रक सुतो राजा कीर्तिरातो महाबलः ।
कीर्ति रातस्य राजऋषेः महारोमा व्यजायत ॥१-७१-११॥

महारोम्णः तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोम्णः तु राजर्षेः ह्रस्वरोमा व्यजायत ॥१-७१-१२॥

तस्य पुत्र द्वयम् जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठो अहम् अनुजो भ्राता मम वीरः कुशध्वज ॥१-७१-१३॥

माम् तु ज्येष्ठम् पिता राज्ये सो अभिषिच्य नराधिप ।
कुशध्वजम् समावेश्य भारम् मयि वनम् गतः ॥१-७१-१४॥

वृद्धे पितरि स्वर् याते धर्मेण धुरम् आवहम् ।
भ्रातरम् देव संकाशम् स्नेहात् पश्यन् कुशध्वजम् ॥१-७१-१५॥

कस्यचित् तु अथ कालस्य सांकाश्यात् अगमत् पुरात् ।
सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः ॥१-७१-१६॥

स च मे प्रेषयामास शैवम् धनुः अनुत्तमम् ।
सीता कन्या च पद्माक्षी मह्यम् वै दीयताम् इति ॥१-७१-१७॥

तस्य अप्रदानात् ब्रह्मर्षे युद्धम् आसीत् मया सह ।
स हतो अभिमुखो राजा सुधन्वा तु मया रणे ॥१-७१-१८॥

निहत्य तम् मुनिश्रेष्ठ सुधन्वानम् नराधिपम् ।
सांकाश्ये भ्रातरम् शूरम् अभ्यषिंचम् कुशध्वजम् ॥१-७१-१९॥

कनीयान् एष मे भ्राता अहम् ज्येष्ठो महामुने ।
ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२०॥
सीताम् रामाय भद्रम् ते ऊर्मिलाम् लक्ष्मणाय वै ।

वीर्य शुल्काम् मम सुताम् सीताम् सुर सुत उपमाम् ॥१-७१-२१॥
द्वितीयाम् ऊर्मिलाम् चैव त्रिः वदामि न संशयः ।
ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२२॥

राम लक्ष्मणयो राजन् गो दानम् कारयस्व ह ।
पितृ कार्यम् च भद्रम् ते ततो वैवाहिकम् कुरु ॥१-७१-२३॥

मघा हि अद्य महाबाहो तृतीये दिवसे प्रभो ।
फल्गुन्याम् उत्तरे राजन् तस्मिन् वैवाहिकम् कुरु ।
राम लक्ष्मणयोः अर्थे दानम् कार्यम् सुखोदयम् ॥१-७१-२४॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥