सामग्री पर जाएँ

रामायणम्/बालकाण्डम्/सर्गः ७७

विकिस्रोतः तः
← सर्गः ७६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सप्तसप्ततितमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।
वरुणायाप्रमेयाय ददौ हस्ते महायशाः ॥१॥

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्।
पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥२॥

जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥३॥

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम् ॥४॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥५॥

चोदयामास तां सेनां जगामाशु ततः पुरीम्।
पताकाध्वजिनीं रम्यां तूर्योद‍्घुष्टनिनादिताम् ॥६॥

सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्।
राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः ॥७॥

सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्।
पौरैः प्रत्युद‍्गतो दूरं द्विजैश्च पुरवासिभिः ॥८॥

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः।
प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् ॥९॥

ननन्द स्वजनै राजा गृहे कामैः सुपूजितः।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१०॥

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः।
ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥११॥

कुशध्वजसुते चोभे जगृहुर्नृपयोषितः।
मंगलालापनैर्होमैः शोभिताः क्षौमवाससः ॥१२॥

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्।
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥१३॥

रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः।
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥१४॥

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः।
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥१५॥

भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः।
अयं केकयराजस्य पुत्रो वसति पुत्रक ॥१६॥

त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव।
श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः ॥१७॥

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा।
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥१८॥

मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ।
युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ॥१९॥

स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह।
गते च भरते रामो लक्ष्मणश्च महाबलः ॥२०॥

पितरं देवसंकाशं पूजयामासतुस्तदा।
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥२१॥

चकार रामः सर्वाणि प्रियाणि च हितानि च।
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ॥२२॥

गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत।
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥२३॥

रामस्य शीलवृत्तेन सर्वे विषयवासिनः।
तेषामतियशा लोके रामः सत्यपराक्रमः ॥२४॥

स्वयंभूरिव भूतानां बभूव गुणवत्तरः।
रामश्च सीतया सार्धं विजहार बहूनृतून् ॥२५॥

मनस्वी तद‍्गतमनास्तस्या हृदि समर्पितः।
प्रिया तु सीता रामस्य दाराः पितृकृता इति ॥२६॥

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते।
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥२७॥

अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा।
तस्य भूयो विशेषेण मैथिली जनकात्मजा।
देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥२८॥

तया स राजर्षिसुतोऽभिकामया।
समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः ॥२९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।