रामायणम्/बालकाण्डम्/सर्गः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २१ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २३ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥

तथा वसिष्टे ब्रुवति राजा दशरथः स्वयम् ।
प्रहृष्ट वदनो रामम् आजुहाव स लक्ष्मणम् ॥१-२२-१॥

कृतः स्वस्त्ययनम् मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैः अभिमंत्रितम् ॥१-२२-२॥
स पुत्रम् मूर्ध्नि उपाघ्राय राजा दशरथः तदा ।
ददौ कुशिक पुत्राय सुप्रीतेन अंतरात्मना ॥१-२२-३॥

ततो वायुः सुख स्पर्शो नीरजस्को ववौ तदा ।
विश्वामित्र गतम् रामम् दृष्ट्वा राजीव लोचनम् ॥१-२२-४॥

पुष्प वृष्टिः महती आसीत् देव दुन्दुभि निःस्वनैः ।
शङ्ख दुन्दुभि निर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥

विश्वामित्रो ययौ अग्रे ततो रामो महायशाः ।
काक पक्ष धरो धन्वी तम् च सौमित्रिः अन्वगात् ॥१-२२-६॥

कलापिनौ धनुष् पाणी शोभयानौ दिशो दश ।
विश्वामित्रम् महात्मानम् त्रि शीर्षौ इव पन्नगौ ।
अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ ॥१-२२-७॥

तदा कुशिक पुत्रम् तु धनुष् पाणी स्वलंकृतौ ।
बद्ध गोध अंगुलि त्राणौ खड्गवन्तौ महाद्युती ॥१-२२-८॥
कुमारौ चारु वपुषौ भ्रातरौ राम लक्ष्मणौ ।
अनुयातौ श्रिया दीप्तौ शोभयेताम् अनिन्दितौ ॥१-२२-९॥
स्थाणुम् देवम् इव अचिन्त्यम् कुमारौ इव पावकी ।

अध्यर्ध योजनम् गत्वा सरय्वा दक्षिणे तटे ॥१-२२-१०॥
रामा इति मधुराम् वाणीम् विश्वामित्रः अभ्यभाषत ।

गृहाण वत्स सलिलम् मा भूत् कालस्य पर्ययः ॥१-२२-११॥
मंत्र ग्रामम् गृहाण त्वम् बलाम् अतिबलाम् तथा ।

न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१२॥
न च सुप्तम् प्रमत्तम् वा धर्ष इष्यन्ति नैरृताः ।

न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश्चन ॥१-२२-१३॥
त्रिषु लोकेषु वा राम न भवेत् सदृशः तव ।

बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१४॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धि निश्चये ।
न उत्तरे प्रति वक्तव्ये समो लोके तव अनघ ॥१-२२-१५॥

एतत् विद्या द्वये लब्धे न भवेत् सदृशः तव ।
बला च अतिबला चैव सर्व ज्ञानस्य मातरौ ॥१-२२-१६॥

क्षुत् पिपासे न ते राम भविष्येते नरोत्तम ।
बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१७॥

गृहाण सर्व लोकस्य गुप्तये रघु नन्दन ।
विद्या द्वयम् अधीयाने यशः च अथ भवेत् भुवि ।
पितामह सुते हि एते विद्ये तेजः समन्विते ॥१-२२-१८॥
प्रदातुम् तव काकुत्थ्स सदृअशः त्वम् हि पार्थिव ।

कामम् बहुगुणाः सर्वे त्वयि एते न अत्र संशयः ॥१-२२-१९॥
तपसा संभृते च एते बहु रूपे भविष्यतः ।

ततो रामो जलम् स्पृष्ट्वा प्रहृष्ट वदनः शुचिः ॥१-२२-२०॥
प्रति जग्राह ते विद्ये महर्षेर् भावित आत्मनः ।

विद्या समुदितो रामः शुशुभे भीम विक्रमः ॥१-२२-२१॥
सहस्र रश्मिः भग्वान् शरदीव दिवाकरः ।
गुरु कार्याणि सर्वाणि नियुज्य कुशिक आत्मजे ।
ऊषुः ताम् रजनीम् तत्र सरय्वाम् सुसुखम् त्रयः ॥१-२२-२२॥

दशरथ नृइप सूनु सत्तमाभ्याम्
तृण शयने अनुचिते तदा उषिताभ्याम् ।
कुशिक सुत वचोऽनुलालिताभ्याम् ।
सुखमिव सा विबभौ विभावरी च ॥१-२२-२३॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे द्वाविंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥