रामायणम्/बालकाण्डम्/सर्गः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २२ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २४ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे ॥१-२३-१॥

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम् ॥१-२३-२॥

तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।
स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम् ॥१-२३-३॥

कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।
अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१-२३-४॥

तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।
ददृशा ते ततः तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥

तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।
बहु वर्ष सहस्राणि तप्यताम् परमम् तपः ॥१-२३-६॥

तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।
ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१-२३-७॥

कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।
भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१-२३-८॥

तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।
अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः ॥१-२३-९॥

कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।
तपस्यंतम् इह स्थाणुम् नियमेन समाहितम् ॥१-२३-१०॥
कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।
धर्षयामास दुर्मेधा हुम् कृतः च महात्मना ॥१-२३-११॥

अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।
व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः ॥१-२३-१२॥

तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।
अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह ॥१-२३-१३॥

अनङ्ग इति विख्यातः तदा प्रभृति राघव ।
स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह ॥१-२३-१४॥

तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।
शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते ॥१-२३-१५॥

इह अद्य रजनीम् राम वसेम शुभ दर्शन ।
पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम् ॥१-२३-१६॥

अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।
इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम् ॥१-२३-१७॥
स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।

तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा ॥१-२३-१८॥
विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।
अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिकात्मजे ॥१-२३-१९॥

राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।
सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन् ॥१-२३-२०॥

यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।
तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।

कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
यद्वा -
कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौ
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे त्रयोविंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥