रामायणम्/बालकाण्डम्/सर्गः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४८ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥

सप्तधा तु कृते गर्भे दितिः परम दुःखिता ।
सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया अब्रवीत् ॥१-४७-१॥

मम अपराधात् गर्भो अयम् सप्तधा शकली कृतः ।
न अपराधो हि देव ईश तव अत्र बलसूदन ॥१-४७-२॥

प्रियम् त्वत् कृतम् इच्छामि मम गर्भ विपर्यये ।
मरुताम् सप्त सप्तानाम् स्थानपाला भवन्तु ते ॥१-४७-३॥

वात स्कंधा इमे सप्त चरन्तु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा मम आत्मजाः ॥१-४७-४॥

ब्रह्म लोकम् चरतु एक इन्द्र लोकम् तथा अपरः ।
दिव्य वायुः इति ख्यातः तृतीयो अपि महायशाः ॥१-४७-५॥

चत्वारः तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
संचरिष्यन्ति भद्रम् ते कलेन हि मम आत्मजाः ॥१-४७-६॥
त्वत् कृतेन एव नाम्ना वै मारुता इति विश्रुताः ।

तस्याः तत् वचनम् श्रुत्वा सहस्राक्षः पुरंदरः ॥१-४७-७॥
उवाच प्रांजलिः वाक्यम् दितिम् बलसूदनः ।

सर्वम् एतत् यथा उक्तम् ते भविष्यति न संशयः ॥१-४७-८॥
विचरिष्यन्ति भद्रम् ते देवरूपाः तव आत्मजाः ।
एवम् तौ निश्चयम् कृत्वा माता पुत्रौ तपोवने ॥१-४७-९॥
जग्मतुः त्रिदिवम् राम कृतार्थौ इति नः श्रुतम् ।

एष देशः स काकुत्स्थ महेन्द्रात् अद्युषितः पुरा ॥१-४७-१०॥
दितिम् यत्र तपः सिद्धाम् एवम् परिचचार सः ।

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परम धार्मिकः ॥१-४७-११॥
अलंबुषायाम् उत्पन्नो विशाल इति विश्रुतः ।
तेन च आसीत् इह स्थाने विशाले इति पुरी कृता ॥१-४७-१२॥

विशालस्य सुतो राम हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रात् अनंतरः ॥१-४७-१३॥

सुचन्द्र तनयो राम धूम्र अश्व इति विश्रुतः ।
धूम्राश्व तनयः च अपि सृंजयः समपद्यत ॥१-४७-१४॥

सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वः सहदेवस्य पुत्रः परम धार्मिकः ॥१-४७-१५॥

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
सोमदत्तस्य पुत्रः तु काकुत्स्थ इति विश्रुतः ॥१-४७-१६॥

तस्य पुत्रो महातेजाः सम्प्रति एष पुरीम् इमाम् ।
आवसत् परम प्रख्यः सुमतिः नाम दुर्जयः ॥१-४७-१७॥

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घ आयुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१-४७-१८॥

इह अद्य रजनीम् एकाम् सुखम् स्वप्स्यामहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकम् द्रष्टुम् अर्हसि ॥१-४७-१९॥

सुमतिः तु महातेजा विश्वामित्रम् उपागतम् ।
श्रुत्वा नर वर श्रेष्ठः प्रत्यागच्छन् महायशाः ॥१-४७-२०॥

पूजाम् च परमाम् कृत्वा स उपाध्यायः सबान्धवः ।
प्रांजलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४७-२१॥

धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे विषयम् मुने ।
संप्राप्तो दर्शनम् चैव न अस्ति धन्यतरो मम ॥१-४७-२२॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥