रामायणम्/बालकाण्डम्/सर्गः ३७
← सर्गः ३६ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ३८ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥
तप्यमाने तदा देवे स इन्द्राः स अग्नि पुरोगमाः ।
सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् ॥१-३७-१॥
ततो अब्रुवन् सुराः सर्वे भगवंतम् पितामहम् ।
प्रणिपत्य सुराः राम स इन्द्राः स अग्नि पुरोगमाः ॥१-३७-२॥
येन सेनापतिः देव दत्तो भगवता पुरा ।
स तपः परम् आस्थाय तप्यते स्म सह उमया ॥१-३७-३॥
यत् अत्र अनंतरम् कार्यम् लोकानाम् हित काम्यया ।
संविधत्स्व विधानज्ञ त्वम् हि नः परमा गतिः ॥१-३७-४॥
देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ।
सान्त्वयन् मधुरैः वाक्यैः त्रिदशान् इदम् अब्रवीत् ॥१-३७-५॥
शैल पुत्र्या यत् उक्तम् तत् न प्रजाः स्वासु पत्निषु ।
तस्या वचनम् अक्लिष्टम् सत्यम् एव न संशयः ॥१-३७-६॥
इयम् आकाश गंगा यस्याम् पुत्रम् हुताशनः ।
जनयिष्यति देवानाम् सेनापतिम् अरिंदमम् ॥१-३७-७॥
ज्येष्ठा शैलेन्द्र दुहिता मानयिष्यति तम् सुतम् ।
उमायाः तत् बहुमतम् भविष्यति न संशयः ॥१-३७-८॥
तत् श्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥१-३७-९॥
ते गत्वा परमम् राम कैलासम् धातु मण्डितम् ।
अग्निम् नियोजयामासुः पुत्रार्थम् सर्व देवताः ॥१-३७-१०॥
देव कार्यम् इदम् देव समाधत्स्व हुताशन ।
शैल पुत्र्याम् महातेजो गंगायाम् तेज उत्सृज ॥१-३७-११॥
देवतानाम् प्रतिज्ञाय गंगाम् अभ्येत्य पावकः ।
गर्भम् धारय वै देवि देवतानाम् इदम् प्रियम् ॥१-३७-१२॥
इति एतत् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् ।
स तस्या महिमाम् दृष्ट्वा समंतात् अवकीर्यत ॥१-३७-१३॥
समंततः तदा देवीम् अभ्यषिंचत पावकः ।
सर्व स्रोतांसि पूर्णानि गंगाया रघुनन्दन ॥१-३७-१४॥
तम् उवाच ततो गंगा सर्व देव पुरोगमम् ।
अशक्ता धारणे देव तेजः तव समुद्धतम् ॥१-३७-१५॥
दह्यमाना अग्निना तेन संप्रव्यथित चेतना ।
अथ अब्रवीत् इदम् गंगाम् सर्व देव हुताशनः ॥१-३७-१६॥
इह हैमवते पार्श्वे गर्भो अयम् संनिवेश्यताम् ।
श्रुत्वा तु अग्नि वचो गंगा तम् गर्भम् अतिभास्वरम् ॥१-३७-१७॥
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदा अनघ ।
यत् अस्या निर्गतम् तस्मात् तप्त जांबूनद प्रभम् ॥१-३७-१८॥
कांचनम् धरणीम् प्राप्तम् हिरण्यम् अतुल प्रभम् ।
ताम्रम् कार्ष्णायसम् चैव तैक्ष्ण्यात् एव अभिजायत ॥१-३७-१९॥
मलम् तस्य अभवत् तत्र त्रपु सीसकम् एव च ।
तत् एतत् धरणीम् प्राप्य नाना धातुः अवर्धत ॥१-३७-२०॥
निक्षिप्त मात्रे गर्भे तु तेजोभिः अभिरंजितम् ।
सर्वम् पर्वत संनद्धम् सौवर्णम् अभवत् वनम् ॥१-३७-२१॥
जातरूपम् इति ख्यातम् तदा प्रभृति राघव ।
सुवर्णम् पुरुषव्याघ्र हुताशन सम प्रभम् ।
तृण वृक्ष लता गुल्मम् सर्वम् भवति कांचनम् ॥१-३७-२२॥
तम् कुमारम् ततो जातम् स इन्द्राः सह मरुद् गणाः ।
क्षीर संभावन अर्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
ताः क्षीरम् जात मात्रस्य कृत्वा समयम् उत्तमम् ।
ददुः पुत्रो अयम् अस्माकम् सर्वासाम् इति निश्चिताः ॥१-३७-२४॥
ततः तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रः त्रैलोक्य विख्यातो भविष्यति न संशयः ॥१-३७-२५॥
तेषाम् तत् वचनम् श्रुत्वा स्कन्नम् गर्भ परिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा अनलम् ॥१-३७-२६॥
स्कंद इति अब्रुवन् देवाः स्कन्नम् गर्भ परिस्रवात् ।
कार्तिकेयम् महाबाहुम् काकुत्स्थ ज्वलन उपमम् ॥१-३७-२७॥
प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानाम् अनुत्तमम् ।
षण्णाम् षड् आननो भूत्वा जग्राह स्तनजम् पयः ॥१-३७-२८॥
गृहीत्वा क्षीरम् एक अह्ना सुकुमार वपुः तदा ।
अजयत् स्वेन वीर्येण दैत्य सैन्य गणान् विभुः ॥१-३७-२९॥
सुर सेना गण पतिम् अभ्यषिंचत् महाद्युतिम् ।
ततः तम् अमराः सर्वे समेत्य अग्नि पुरोगमाः ॥१-३७-३०॥
एष ते राम गंगाया विस्तरो अभिहितो मया ।
कुमार संभवः चैव धन्यः पुण्यः तथैव च ॥१-३७-३१॥
भक्तः च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्र पौत्रः च स्कन्द सालोक्यताम् व्रजते ॥१-३७-३२॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।