रामायणम्/बालकाण्डम्/सर्गः ४६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥

हतेषु तेषु पुत्रेषु दितिः परम दुःखिता ।
मारीचम् काश्यपम् राम भर्तारम् इदम् अब्रवीत् ॥१-४६-१॥

हत पुत्रा अस्मि भगवन् तव पुत्रैः महाबलैः ।
शक्र हन्तारम् इच्छामि पुत्रम् दीर्घ तपो अर्जितम् ॥१-४६-२॥

सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि ।
ईश्वरम् शक्र हन्तारम् त्वम् अनुज्ञातुम् अर्हसि ॥१-४६-३॥

तस्याः तत् वचनम् श्रुत्वा मारीचः काश्यपः तदा ।
प्रत्युवाच महातेजा दितिम् परम दुःखिताम् ॥१-४६-४॥

एवम् भवतु भद्रम् ते शुचिः भव तपोधने ।
जनयिष्यसि पुत्रम् त्वम् शक्र हन्तारम् आहवे ॥१-४६-५॥

पूर्णे वर्ष सहस्रे तु शुचिः यदि भविष्यसि ।
पुत्रम् त्रैलोक्य हन्तारम् मत्तः त्वम् जनयिष्यसि ॥१-४६-६॥

एवम् उक्त्वा महा तेजाः पाणिना स ममार्ज ताम् ।
तम् आलभ्य ततः स्वस्ति इति उक्त्वा तपसे ययौ ॥१-४६-७॥

गते तस्मिन् नरश्रेष्ठ दितिः परम हर्षिता ।
कुशप्लवम् सामासाद्य तपः तेपे सुदारुणम् ॥१-४६-८॥

तपः तस्याम् हि कुर्वत्याम् परिचर्याम् चकार ह ।
सहस्राक्षो नरश्रेष्ठ परया गुण संपदा ॥१-४६-९॥

अग्निम् कुशान् काष्ठम् अपः फलम् मूलम् तथैव च ।
न्यवेदयत् सहस्राक्षो यच् च अन्यत् अपि कान्क्षितम् ॥१-४६-१०॥

गात्र संवाहनैः चैव श्रम अपनयनैः तथा ।
शक्रः सर्वेषु कालेषु दितिम् परिचचार ह ॥१-४६-११॥

पूर्णे वर्ष सहस्रे दश ऊने रघुनंदन ।
दितिः परम संहृष्टा सहस्राक्षम् अथ अब्रवीत् ॥१-४६-१२॥

तपः चरन्त्या वर्षाणि दश वीर्यवताम् वर ।
अवशिष्टानि भद्रम् ते भ्रातरम् द्रक्ष्यसे ततः ॥१-४६-१३॥

यम् अहम् त्वत् कृते पुत्र तम् आधास्ये जय उत्सुकम् ।
त्रैलोक्य विजयम् पुत्र सह भोक्ष्यसि विज्वरः ॥१-४६-१४॥

याचितेन सुरश्रेष्ट पित्रा तव माहात्मना ।
वरो वर्ष सस्र अन्ते मम दत्तः सुतम् प्रति ॥१-४६-१५॥

इति उक्त्वा च दितिः तत्र प्राप्ते मध्यन्दिन ईश्वरे ।
निद्रया पहृता देवी पादौ कृत्वाथ शीर्षतः ॥१-४६-१६॥

दृष्ट्वा ताम् अशुचिम् शक्रः पादयोः कृत मूर्धजाम् ।
शिरः स्थाने कृतौ पादौ जहास च मुमोद च ॥१-४६-१७॥

तस्याः शरीर विवरम् प्रविवेश पुरंदरः ।
गर्भम् च सप्तधा राम चिच्छेद परम आत्मवान् ॥१-४६-१८॥

भिद्यमानः ततो गर्भो वज्रेण शत पर्वणा ।
रुरोद सुस्वरम् राम ततो दितिः अबुध्यत ॥१-४६-१९॥

मा रुदो मा रुदः च इति गर्भम् शक्रो अभ्यभाषत ।
बिभेद च महातेजा रुदन्तम् अपि वासवः ॥१-४६-२०॥

न हन्तव्यम् न हन्तव्यम् इति एवम् दितिः अब्रवीत् ।
निष्पपात ततः शक्रो मातुर् वचन गौरवात् ॥१-४६-२१॥

प्रांजलिः वज्र सहितो दितिम् शक्रो अभ्यभाषत ।
अशुचिः देवि सुप्ता असि पादयोः कृत मूर्धजा॥१-४६-२२॥

तत् अन्तरम् अहम् लब्ध्वा शक्र हन्तारम् आहवे ।
अभिन्दम् सप्तधा देवि तन् मे त्वम् क्षन्तुम् अर्हसि ॥१-४६-२३॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥