रामायणम्/बालकाण्डम्/सर्गः ५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ५७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् ॥१-५६-१॥

ब्रह्मदण्डम् समुद्यम्य काल दण्डम् इव अपरम् ।
वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् ॥१-५६-२॥

क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय ।
नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज ॥१-५६-३॥

क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् ।
पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन ॥१-५६-४॥

तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् ।
ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा ॥१-५६-५॥

वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ।
ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः ॥१-५६-६॥

मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा ।
जृंभणम् मदानम् चैव संतापन विलापने ॥१-५६-७॥

शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् ।
ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च ॥१-५६-८॥

पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा ।
दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च ॥१-५६-९॥

धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च ।
वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा ॥१-५६-१०॥

शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा ।
वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् ॥१-५६-११॥

त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् ।
एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन ॥१-५६-१२॥
वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् ।

तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१-५६-१३॥
तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः ।

तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः ॥१-५६-१४॥
देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः ।
त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते ॥१-५६-१५॥

तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव ॥१-५६-१६॥

ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् ॥१-५६-१७॥

रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः ॥१-५६-१८॥

प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः ।
विधूम इव काल अग्निः यम दण्ड इव अपरः ॥१-५६-१९॥

ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् ।
अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा ॥१-५६-२०॥
निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः ॥१-५६-२१॥

एवम् उक्तो महातेजाः शमम् चक्रे महातपाः ।
विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् ॥१-५६-२२॥

धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् ।
एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे ॥१-५६-२३॥

तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः ।
तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् ॥१-५६-२४॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥