सामग्री पर जाएँ

रामायणम्/बालकाण्डम्/सर्गः ३६

विकिस्रोतः तः
← सर्गः ३५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३७ →
षट्त्रिंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥

त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥

दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥

न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥

यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥

देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥

धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥

एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥

यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥

पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥

समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥

अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥

एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥

एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।