रामायणम्/बालकाण्डम्/सर्गः ७६
< रामायणम् | बालकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ७५ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ७७ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥
श्रुत्वा तत् जामदग्न्यस्य वाक्यम् दाशरथिः तदा । गौरवात् यंत्रित कथः पितू रामम् अथ अब्रवीत् ॥१-७६-१॥ कृतवान् अस्मि यत् कर्म श्रुतवान् असि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः ॥१-७६-२॥ वीर्य हीनम् इव अशक्तम् क्षत्र धर्मेण भार्गव । अवजानासि मे तेजः पश्य मे अद्य पराक्रमम् ॥१-७६-३॥ इति उक्त्वा राघवः क्रुद्धो भार्गवस्य वर आयुधम् । शरम् च प्रतिजग्राह हस्तात् लघु पराक्रमः ॥१-७६-४॥ आरोप्य स धनू रामः शरम् सज्यम् चकार ह । जामदग्न्यम् ततो रामम् रामः क्रुद्धो अब्रवीत् इदम् ॥१-७६-५॥ ब्राह्मणो असि इति पूज्यो मे विश्वामित्र कृतेन च । तस्मात् शक्तो न ते राम मोक्तुम् प्राण हरम् शरम् ॥१-७६-६॥ इमाम् वा त्वत् गतिम् राम तपो बल समार्जितान् । लोकान् अप्रतिमान् वा अपि हनिष्यामि यत् इच्छसि ॥१-७६-७॥ न हि अयम् वैष्णवो दिव्यः शरः पर पुरंजयः । मोघः पतति वीर्येण बल दर्प विनाशनः ॥१-७६-८॥ वर आयुध धरम् रामम् द्रष्टुम् स ऋषि गणाः सुराः । पितामहम् पुरस्कृत्य समेताः तत्र सर्वशः ॥१-७६-९॥ गंधर्व अप्सरसः चैव सिद्ध चारण किन्नराः । यक्ष राक्षस नागाः च तत् द्रष्टुम् महत् अद्भुतम् ॥१-७६-१०॥ जडी कृते तदा लोके रामे वर धनुर् धरे । निर्वीर्यो जामदग्न्यो असौ रमो रामम् उदैक्षत ॥१-७६-११॥ तेजोभिः हत वीर्यत्वात् जामदग्न्यो जडी कृतः । रामम् कमल पत्र अक्षम् मन्दम् मन्दम् उवाच ह ॥१-७६-१२॥ काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा । विषये मे न वस्तव्यम् इति माम् काश्यपो अब्रवीत् ॥१-७६-१३॥ सो अहम् गुरु वचः कुर्वन् पृथिव्याम् न वसे निशाम् । तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१-७६-१४॥ तम् इमाम् मत् गतिम् वीर हन्तुम् न अर्हसि राघव । मनो जवम् गमिष्यामि महेन्द्रम् पर्वत उत्तमम् ॥१-७६-१५॥ लोकाः तु अप्रतिमा राम निर्जिताः तपसा मया । जहि तान् शर मुख्येन मा भूत् कालस्य पर्ययः ॥१-७६-१६॥ अक्षय्यम् मधु हन्तारम् जानामि त्वाम् सुरेश्वरम् । धनुषो अस्य परामर्शात् स्वस्ति ते अस्तु परंतप ॥१-७६-१७॥ एते सुर गणाः सर्वे निरीक्षन्ते समागताः । त्वाम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥१-७६-१८॥ न च इयम् तव काकुत्स्थ व्रीडा भवितुम् अर्हति । त्वया त्रैलोक्य नाथेन यत् अहम् विमुखी कृतः ॥१-७६-१९॥ शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सु व्रत । शर मोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२०॥ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् । रामो दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम् ॥१-७६-२१॥ स हतान् दृश्य रामेण स्वान् लोकान् तपसा आर्जितान् । जामदग्न्यो जगाम आशु महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२२॥ ततो वि तिमिराः सर्वा दिशा च उपदिशः तथा । सुराः स ऋषि गणाः रामम् प्रशशंसुः उदायुधम् ॥१-७६-२३॥ रामम् दाशरथिम् रामो जामदग्न्यः प्रशस्य च । ततः प्रदक्षिणी कृत्य जगाम आत्म गतिम् प्रभुः ॥१-७६-२४॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।