रामायणम्/बालकाण्डम्/सर्गः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १२ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १४ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान् ॥१-१३-१॥

अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम् ॥१-१३-२॥

यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम् ॥१-१३-३॥

भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।
वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः ॥१-१३-४॥

तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।
करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१-१३-५॥

ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।
स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान् ॥१-१३-६॥

कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।
गणकान् शिल्पिनः च एव तथा एव नट नर्तकान् ॥१-१३-७॥

तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।
यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात् ॥१-१३-८॥

इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।
उपकार्याः क्रियन्ताम् च राज्ञो बहु गुणान्विताः ॥१-१३-९॥

ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।
भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥

तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।
आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक् ॥१-१३-११॥

वाजिवारण शलाः च तथा शय्या गृहाणि च ।
भटानाम् महदावासम् वैदेशिक निवासिनाम् ॥१-१३-१२॥

आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।
तथा पौरजन्स्य अपि जनस्य बहु शोभनम् ॥१-१३-१३॥

दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥

न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।
यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१-१३-१५॥

तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।
ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च ॥१-१३-१६॥

यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा ॥१-१३-१७॥

ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।
यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते ॥१-१३-१८॥

यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।
ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् ॥१-१३-१९॥

निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः ॥१-१३-२०॥

समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।
मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम् ॥१-१३-२१॥

तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।
पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते ॥१-१३-२२॥

तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।
सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह ॥१-१३-२३॥

तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।
श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय ॥१-१३-२४॥

अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।
वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय ॥१-१३-२५॥

तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।
मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम् ॥१-१३-२६॥

प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।
राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान् ॥१-१३-२७॥

दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।
सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले ॥१-१३-२८॥

तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।
एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या ॥१-१३-२९॥

वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।
व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१-१३-३०॥

स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।
सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः ॥१-१३-३१॥

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।
सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१-१३-३२॥

ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।
अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा ॥१-१३-३३॥

अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।
ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः ॥१-१३-३४॥

बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।
ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् ॥१-१३-३५॥

उपयाता नर व्याघ्र राजानः तव शासनात् ।
मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम ॥१-१३-३६॥

यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात् ॥१-१३-३७॥

सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।
द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥

तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।
दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥

ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा ॥१-१३-४०॥

यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।
श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत् ॥१-१३-४१॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥