रामायणम्/बालकाण्डम्/सर्गः ६५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६४ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६६ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥

अथ हैमवतीम् राम दिशम् त्यक्त्वा महामुनिः ।
पूर्वाम् दिशम् अनुप्राप्य तपः तेपे सुदारुणम् ॥१-६५-१॥

मौनम् वर्ष सहस्रस्य कृत्वा व्रतम् अनुत्तमम् ।
चकार अप्रतिमम् राम तपः परम दुष्करम् ॥१-६५-२॥

पूर्णे वर्ष सहस्रे तु काष्ठ भूतम् महामुनिम् ।
विघ्नैः बहुभिः आधूतम् क्रोधो न अंतरम् आविशत् ॥१-६५-३॥
सः कृत्वा निश्चयम् राम तप आतिष्टत् अव्ययम् ।

तस्य वर्ष सहस्रस्य व्रते पूर्णे महाव्रतः ॥१-६५-४॥
भोक्तुम् आरब्धवान् अन्नम् तस्मिन् काले रघूत्तम ।
इन्द्रो द्विजातिः भूत्वा तम् सिद्ध अन्नम् अयाचत् ॥१-६५-५॥

तस्मैः दत्त्वा तदा सिद्धम् सर्वम् विप्राय निश्चितः ।
निःषेषिते अन्ने भगवान् अभुक्त्वा इव महातपाः ॥१-६५-६॥
न किंचित् अवदत् विप्रम् मौन व्रतम् उपास्थितः ।
तथा एव आसीत् पुनः मौनम् अनुच्छ्वासम् चकार ह ॥१-६५-७॥

अथ वर्ष सहस्रम् च न उच्छ्वसन् मुनिपुंगवः ।
तस्य अनुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥१-६५-८॥
त्रै लोक्यम् येन संभ्रांतम् आतापितम् इव अभवत् ।

ततो देवर्षि गन्धर्वाः पन्नग उरग राक्षसाः ॥१-६५-९॥
मोहिता तपसा तस्य तेजसा मंदरश्मयः ।
कश्मल उपहताः सर्वे पितामहम् अथ अब्रुवन् ॥१-६५-१०॥

बहुभिः कारणैः देव विश्वामित्रो महामुनिः ।
लोभितः क्रोधितः चैव तपसा च अभिवर्धते ॥१-६५-११॥

न हि अस्य वृजिनम् किंचित् दृश्यते सूक्ष्मम् अपि अथ ।
न दीयते यदि तु अस्य मनसा यत् अभीप्सितम् ॥१-६५-१२॥
विनाशयति त्रैलोक्यम् तपसा स चर अचरम् ।

व्याकुलाः च दिशः सर्वा न च किंचित् प्रकाशते ॥१-६५-१३॥
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।

प्रकंपते च वसुधा वायुः वाति इह संकुलः ॥१-६५-१४॥
ब्रह्मन् नप्रतिजानीमो नास्तिको जायते जनः ।

सम्मूढम् इव त्रैलोक्यम् संप्रक्षुभित मानसम् ॥१-६५-१५॥
भास्करो निष्प्रभः चैव महर्षेः तस्य तेजसा ।

बुद्धिम् न कुरुते यावत् नाशे देव महामुनिः ॥१-६५-१६॥
तावत् प्रसादो भगवान् अग्नि रूपो महाद्युतिः ।

काल अग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम् ॥१-६५-१७॥
देव राज्यम् चिकीर्षेत दीयताम् अस्य यत् मतम् ।

ततः सुर गणाः सर्वे पितामह पुरोगमाः ॥१-६५-१८॥
विश्वामित्रम् महात्मानम् वाक्यम् मधुरम् अब्रुवन् ।

ब्रह्मर्षे स्वागतम् ते अस्तु तपसा स्म सु तोषिताः ॥१-६५-१९॥
ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक ।

दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुद् गणः ॥१-६५-२०॥
स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथा सुखम् ।

पितामह वचः श्रुत्वा सर्वेषाम् त्रिदिव ओकसाम् ॥१-६५-२१॥
कृत्वा प्रणामम् मुदितो व्याजहार महामुनिः ।

ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुः तथैव च ॥१-६५-२२॥
आऊं कारो अथ वषट् कारो वेदाः च वरयन्तु माम् ।

क्षत्र वेदविदाम् श्रेष्ठो ब्रह्म वेदविदाम् अपि ॥१-६५-२३॥
ब्रह्म पुत्रो वसिष्ठो माम् एवम् वदतु देवताः ।
यदि अयम् परमः कामः कृतो यान्तु सुरर्षभाः ॥१-६५-२४॥

ततः प्रसादितो देवैः वसिष्ठो जपताम् वरः ।
सख्यम् चकार ब्रह्मर्षिः एवम् अस्तु इति च अब्रवीत् ॥१-६५-२५॥

ब्रह्मर्षिः त्वम् न संदेहः सर्वम् संपद्यते तव ।
इति उक्त्वा देवताः च अपि सर्वा जग्मुः यथा आगतम् ॥१-६५-२६॥

विश्वामित्रो अपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् ।
पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम् ॥१-६५-२७॥

कृत कामो महीम् सर्वाम् चचार तपसि स्थितः ।
एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना ॥१-६५-२८॥

एष राम मुनि श्रेष्ठ एष विग्रहवान् तपः ।
एष धर्मः परो नित्यम् वीर्यस्य एष परायणम् ॥१-६५-२९॥

एवम् उक्त्वा महातेजा विरराम द्विजोत्तमः ।
शतानंद वचः श्रुत्वा राम लक्ष्मण संनिधौ ॥१-६५-३०॥
जनकः प्रांजलिः वाक्यम् उवाच कुशिकाअत्मजम् ।

धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनिपुंगव ॥१-६५-३१॥
यज्ञम् काकुत्स्थ सहितः प्राप्तवान् असि कौशिक ।

पावितो अहम् त्वया ब्रह्मन् दर्शनेन महामुने ॥१-६५-३२॥
गुणा बहु विधाः प्राप्ताः तव संदर्शनात् मया ।

विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत्तपः ॥१-६५-३३॥
श्रुतम् मया महातेजो रामेण च महात्मना ।

सदस्यैः प्राप्य च सदः श्रुताः ते बहवो गुणाः ॥१-६५-३४॥
अप्रमेयम् तपः तुभ्यम् अप्रमेयम् च ते बलम् ।
अप्रमेया गुणाः चैव नित्यम् ते कुशिकात्मज ॥१-६५-३५॥

तृप्तिः आश्चर्य भूतानाम् कथानाम् न अस्ति मे विभो ।
कर्म कालो मुनि श्रेष्ठ लम्बते रवि मण्डलम् ॥१-६५-३६॥

श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि माम् पुनः ।
स्वागतम् जपताम् श्रेष्ठ माम् अनुज्ञातुम् अर्हसि ॥१-६५-३७॥

एवम् उक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।
विससर्ज आशु जनकम् प्रीतम् प्रीतिमान् तदाअ ॥१-६५-३८॥

एवम् उक्त्वा मुनि श्रेष्ठम् वैदेहो मिथिला अधिपः ।
प्रदक्षिणम् चकार आशु स उपाध्यायः स बांधवः ॥१-६५-३९॥

विश्वामित्रो अपि धर्मात्मा सह रामः स लक्ष्मणः ।
स्वम् वासम् अभिचक्राम पूज्यमानो महर्षिभिः ॥१-६५-४०॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥