रामायणम्/बालकाण्डम्/सर्गः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥

तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।
दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥

इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥

बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।
धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥

यथा मनुर् महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥

तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।
पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥

तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।
नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥

न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।
कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः ॥१-६-८॥

सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।
मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥

न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।
न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते ॥१-६-१०॥

न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।
न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥

न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।
कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः ॥१-६-१२॥

स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।
दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥

नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।
न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् ॥१-६-१४॥

न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।
न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥

कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।
द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् ॥१-६-१६॥

वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।
कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥

दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।
सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥

क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।
शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥

सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।
यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥

योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।
संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥

कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।
वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥

विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।
मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥

इरावत कुलीनैः च महापद्म कुलैः तथा ।
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥

भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।
भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।

सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥

ताम् पुरीम् स महातेजा राजा दशरथो महान् ।
शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥

ताम् सत्य नामाम् दृढ तोरण अर्गलाम्गृहैः विचित्रैः उपशोभिताम् शिवाम् ।
पुरीम् अयोध्याम् नृ सहस्र संकुलाम्शशास वै शक्र समो महीपतिः ॥१-६-२८॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥