रामायणम्/बालकाण्डम्/सर्गः ६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६१ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६३ →
द्विषष्ठितमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ०१
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ०१
अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः ०२
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ०२
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ०३
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ०३
ततः कालेन महता मेनका परमाप्सराः ०४
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ०४
तां ददर्श महातेजा मेनकां कुशिकात्मजः ०५
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ०५
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ०६
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ०६
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ०६
इत्युक्ता सा वरारोहा तत्रावासमथाकरोत् ०७
तपसो हि महाविघ्नो विश्वामित्रमुपागतः ०७
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ०८
विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः ०८
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ०९
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ०९
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन १०
सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् १०
अहोरात्रापदेशेन गताः संवत्सरा दश ११
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ११
विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः १२
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् १३
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः १३
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह १३
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः १४
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् १४
तस्य वर्षसहस्रं तु घोरं तप उपासतः १५
उत्तरे पर्वते राम देवतानामभूद्भयम् १५
अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः १६
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः १६
देवतानां वचः श्रुत्वा सर्वलोकपितामहः १७
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् १७
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः १८
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक १८
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः १९
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् १९
ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः २०
यदि मे भगवानाह ततोऽहं विजितेन्द्रियः २०
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः २१
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः २१
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः २२
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् २२
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः २३
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः २३
एवं वर्षसहस्रं हि तपो घोरमुपागमत् २४
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ २४
संभ्रमः सुमहानासीत्सुराणां वासवस्य च २५
रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः २५
उवाचात्महितं वाक्यमहितं कौशिकस्य च २६


शुनःशेपम् नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्रामत् पुष्करे राजा मध्याह्ने रघुनंदन ॥१-६२-१॥

तस्य विश्रममाणस्य शुनःशेपो महायशाः ।
पुष्करम् ज्येष्ठम् आगम्य विश्वामित्रम् ददर्श ह ॥१-६२-२॥
तप्यन्तम् ऋषिभिः सार्थम् मातुलम् परम आतुरः ।

विषण्ण वदनो दीनः तृष्णया च श्रमेण च ॥१-६२-३॥
पपात अन्के मुने राम वाक्यम् च इदम् उवाच ह ।

न मे अस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥१-६२-४॥
त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनिपुंगव ।

त्राता त्वम् हि नरश्रेष्ठ सर्वेषाम् त्वम् हि भावनः ॥१-६२-५॥
राजा च कृतकार्यः स्यात् अहम् दीर्घ आयुः अव्ययः ।
स्वर्ग लोकम् उपाश्नीयाम् तपः तप्त्वा हि अनुत्तमम् ॥१-६२-६॥

स मे नाथो हि अनाथस्य भव भव्येन चेतसा ।
पिता इव पुत्रम् धर्माअत्मन् त्रातुम् अर्हसि किल्बिषात् ॥१-६२-७॥

तस्य तत् वचनम् श्रुत्वा विश्वामित्रो महातपाः ।
सान्त्वयित्वा बहु विधम् पुत्रान् इदम् उवाच ह ॥१-६२-८॥

यत् कृते पितरः पुत्रान् जनयन्ति शुभ अर्थिनः ।
पर लोक हित अर्थाय तस्य कालो अयम् आगतः ॥१-६२-९॥

अयम् मुनि सुतो बालो मत्तः शरणम् इच्छति ।
अस्य जीवित मात्रेण प्रियम् कुरुत पुत्रकाः ॥१-६२-१०॥

सर्वे सुकृत कर्माणः सर्वे धर्म परायणाः ।
पशु भूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत ॥१-६२-११॥

नाथनान् च शुनःशेपो यज्ञः च अविघ्नतो भवेत् ।
देवताः तर्पिताः च स्युः मम च अपि कृतम् वचः ॥१-६२-१२॥

मुनेः तु वचनम् श्रुत्वा मधुष्यन्द आदयः सुताः ।
स अभिमानम् नरश्रेष्ठ स लीलम् इदम् अब्रुवन् ॥१-६२-१३॥

कथम् आत्म सुतान् हित्वा त्रायसे अन्य सुतम् विभो ।
अकार्यम् इव पश्यामः श्व मांसम् इव भोजने ॥१-६२-१४॥

तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् मुनिपुंगवः ।
क्रोध संरक्त नयनो व्याहर्तुम् उपचक्रमे ॥१-६२-१५॥

निःसाध्वसम् इदम् प्रोक्तम् धर्मात् अपि विगर्हितम् ।
अतिक्रम्य तु मत् वाक्यम् दारुणम् रोम हर्षणम् ॥१-६२-१६॥

श्व मांस भोजिनः सर्वे वासिष्ठा इव जातिषु ।
पूर्णम् वर्ष सहस्रम् तु पृथिव्याम् अनुवत्स्यथ ॥१-६२-१७॥

कृत्वा शाप समायुक्तान् पुत्रान् मुनिवरः तदा ।
शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम् ॥१-६२-१८॥

पवित्र पाशैर् बद्धो रक्त माल्य अनुलेपनः ।
वैष्णवम् यूपम् आसाद्य वाग्भिः अग्निम् उदाहर ॥१-६२-१९॥

इमे च गाथे द्वे दिव्ये गायेथा मुनि पुत्रक ।
अंबरीषस्य यज्ञे अस्मिन् ततः सिद्धिम् अवाप्स्यसि ॥१-६२-२०॥

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राज सिंहम् तम् अंबरीषम् उवाच ह ॥१-६२-२१॥

राज सिंह महाबुद्धे शीघ्रम् गच्छावहे वयम् ।
निवर्तयस्व राजेन्द्र दीक्षाम् च समुदाहर ॥१-६२-२२॥

तत् वाक्यम् ऋषि पुत्रस्य श्रुत्वा हर्ष समन्वितः ।
जगाम नृपतिः शीघ्रम् यज्ञ वाटम् अतन्द्रितः ॥१-६२-२३॥

सदस्य अनुमते राजा पवित्र कृत लक्षणम् ।
पशुम् रक्त अंबरम् कृत्वा यूपे तम् समबन्धयत् ॥१-६२-२४॥

स बद्धो वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ ।
इन्द्रम् इन्द्र अनुजम् चैव यथावत् मुनि पुत्रकः ॥१-६२-२५॥

ततः प्रीतः सहस्र अक्षो रहस्य स्तुति तोषितः ।
दीर्घम् आयुः तदा प्रादात् शुनःशेपाय राघव ॥१-६२-२६॥

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलम् बहु गुणम् राम सहस्राक्ष प्रसादजम् ॥१-६२-२७॥

विश्वामित्रो अपि धर्मात्मा भूयः तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दश वर्ष शतानि च ॥१-६२-२८॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।