रामायणम्/बालकाण्डम्/सर्गः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ११ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥

सुमंत्रः चोदितो राज्ञा प्रोवाच इदम् वचः तदा ।
यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन मंत्रिभिःतन्मे निगदितम् सर्वम् शृणु मे मंत्रिभिः सह ॥१-१०-१॥

रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः ।
उपायो निरपायो अयम् अस्माभिः अभिचिन्तितः ॥१-१०-२॥

ऋष्यशृङ्गो वनचरः तपः स्वाध्याय संयुतः ।
अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१-१०-३॥

इन्द्रियार्थैः अभिमतैः नरचित्त प्रमाथिभि ।
पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१-१०-४॥

गणिकाः तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।
प्रलोभ्य विविध उपायैः आनेष्यन्ति इह सत्कृताः ॥१-१०-५॥

श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् ।
पुरोहितो मंत्रिणः च तथा चक्रुः च ते तथा ॥१-१०-६॥

वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महत् ।
आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१-१०-७॥

ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।
पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥

न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।
स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥

ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।
विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥

ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।
ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥

कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।
एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥

अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।
हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥

पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।
ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥

इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।
करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥

ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।
तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥

गतानाम् तु ततः पूजाम् ऋषि पुत्रः चकार ह ।
इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥

प्रतिगृह्य तु ताम् पूजाम् सर्वा एव समुत्सुकाः ।
ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥

अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।
गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥

ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।
मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥

तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।
अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥

आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।
गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥

गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।
अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥

ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।
विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।
दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥

उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।
एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥

चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।
तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥

श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।
गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥

तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।
ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥

वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।
प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥

अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।
वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥

अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।
शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥

एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।
ऋष्यश्ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥