रामायणम्/बालकाण्डम्/सर्गः ६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६१ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥

तपो बल हतान् ज्ञात्वा वासिष्ठान् स महोदयान् ।
ऋषि मध्ये महातेजा विह्वामित्रो अभ्यभाषत ॥१-६०-१॥

अयम् इक्ष्वाकु दायादः त्रिशंकुः इति विश्रुतः ।
धर्मिष्ठः च वदान्यः च माम् चैव शरणम् गतः ॥१-६०-२॥
स्वेन अनेन शरीरेण देव लोक जिगीषया ।

यथा अयम् स्व शरीरेण देव लोकम् गमिष्यति ॥१-६०-३॥
तथा प्रवर्त्यताम् यज्ञो भवद्भिः च मया सह ।

विश्वामित्र वचः श्रुत्वा सर्व एव महर्षयः ॥१-६०-४॥
ऊचुः समेताः सहसा धर्मज्ञा धर्म संहितम् ।

अयम् कुशिक दायादो मुनिः परम कोपनः ॥१-६०-५॥
यत् आह वचनम् सम्यक् एतत् कार्यम् न संशयः ।
अग्नि कल्पो हि भगवान् शापम् दास्यति रोषितः ॥१-६०-६॥

तस्मात् प्रवर्त्यताम् यज्ञः स शरीरो यथा दिवम् ।
गच्छेत् इक्ष्वाकु दायादो विश्वामित्रस्य तेजसा ॥१-६०-७॥
ततः प्रवर्त्यताम् यज्ञः सर्वे समधितिष्ठत ।

एवम् उक्त्वा महर्षयः संजह्रुः ताः क्रियाः तदा ॥१-६०-८॥
याजकः च महातेजा विश्वामित्रो अभवत् क्रतौ ।

ऋत्विजः च आनुपूर्व्येण मंत्रवत् मंत्र कोविदाः ॥१-६०-९॥
चक्रुः सर्वाणि कर्माणि यथा कल्पम् यथा विधि ।

ततः कालेन महता विश्वामित्रो महातपाः ॥१-६०-१०॥
चकार आवाहनम् तत्र भाग अर्थम् सर्व देवताः ।

न अभ्यागमन् तदा भाग अर्थम् सर्व देवताः ॥१-६०-११॥
ततः कोप समाविष्टो विश्वमित्रो महामुनिः ।
स्रुवम् उद्यम्य स क्रोधः त्रिशंकुम् इदम् अब्रवीत् ॥१-६०-१२॥

पश्य मे तपसो वीर्यम् स्व आर्जितस्य नर ईश्वर ।
एष त्वाम् स्व शरीरेण नयामि स्वर्गम् ओजसा ॥१-६०-१३॥
दुष्प्रापम् स्व शरीरेण दिवम् गच्छ नर अधिप ।

स्वार्जितम् किंचित् अपि अस्ति मया हि तपसः फलम् ॥१-६०-१४॥
राजन् त्वम् तेजसा तस्य स शरीरो दिवम् व्रज ।

उक्त वाक्ये मुनौ तस्मिन् स शरीरो नर ईश्वरः ॥१-६०-१५॥
दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा ।

स्वर्ग लोकम् गतम् दृष्ट्वा त्रिशंकुम् पाक शासनः ॥१-६०-१६॥
सह सर्वैः सुर गणैः इदम् वचनम् अब्रवीत् ।

त्रिशंको गच्छ भूयः त्वम् न असि स्वर्ग कृत आलयः ॥१-६०-१७॥
गुरु शाप हतो मूढ पत भूमिम् अवाग् शिराः ।

एवम् उक्तो महेन्द्रेण त्रिशंकुः अपतत् पुनः ॥१-६०-१८॥
विक्रोशमानः त्राहि इति विश्वामित्रम् तपो धनम् ।

तत् श्रुत्वा वचनम् तस्य क्रोशमानस्य कौशिकः ॥१-६०-१९॥
रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत् ।

ऋषि मध्ये स तेजस्वी प्रजापतिः इव अपरः ॥१-६०-२०॥
सृजन् दक्षिण मार्गस्थान् सप्त ऋषीन् अपरान् पुनः ।
नक्षत्र वंश परंपरम् असृजत् क्रोध मूर्छितः ॥१-६०-२१॥
दक्षिणाम् दिशम् आस्थाय मुनि मध्ये महायशाः ।

सृष्ट्वा नक्षत्र वंशम् च क्रोधेन कलुषी कृतः ॥१-६०-२२॥
अन्यम् इंद्रम् करिष्यामि लोको वा स्यात् अनिंद्रकः ।
दैवतानि अपि स क्रोधात् स्रष्टुम् समुपचक्रमे ॥१-६०-२३॥

ततः परम संभ्रान्ताः स ऋषि संघाः सुर असुराः ।
विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः ॥१-६०-२४॥

अयम् राजा महाभाग गुरु शाप परिक्षतः ।
स शरीरो दिवम् यातुम् न अर्हति एव तपो धन ॥१-६०-२५॥

तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि पुंगवः ।
अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व देवताः ॥१-६०-२६॥

स शरीरस्य भद्रम् वः त्रिहन्कोः अस्य भूपतेः ।
आरोहणम् प्रतिज्ञातम् न अनृतम् कर्तुम् उत्सहे ॥१-६०-२७॥

स्वर्गो अस्तु स शरीरस्य त्रिशंकोः अस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाणि अथ ॥१-६०-२८॥
यावत् लोका धरिष्यन्ति तिष्ठन्ति एतानि सर्वशः ।
यत् कृतानि सुराः सर्वे तत् अनुज्ञातुम् अर्हथ ॥१-६०-२९॥

एवम् उक्ताः सुराः सर्वे प्रति ऊचुः मुनि पुंगवम् ।
एवम् भवतु भद्रम् ते तिष्ठन्तु एतानि सर्वशः ॥१-६०-३०॥
गगने तानि अनेकानि वैश्वानर पथात् बहिः ।
नक्षत्राणि मुनि श्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥१-६०-३१॥
अवाग् शिराः त्रिशंकुः च तिष्ठतु अमर संनिभः ।

अनुयास्यन्ति च एतानि ज्योतीन्षि नृप सत्तमम् ॥१-६०-३२॥
कृतार्थम् कीर्तिमन्तम् च स्वर्ग लोक गतम् यथा ।

विश्वामित्रः तु धर्मात्मा सर्व देवैः अभिष्टुतः ॥१-६०-३३॥
ऋषि मध्ये महातेजा बाढम् इति आह देवताः ।

ततो देवा महात्मानो ऋषयः च तपो धनाः ।
जग्मुः यथा आगतम् सर्वे यज्ञस्य अन्ते नरोत्तम ॥१-६०-३४॥


इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥