रामायणम्/बालकाण्डम्/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १२ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥

भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥

इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥

अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।
कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥

पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।
तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥

अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।
आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥

श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।
प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥

प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।
आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥

तम् च राजा दशरथो यशस् कामः कृतांलिः ।
ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥

यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।
लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥

पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।
वंश प्रतिष्ठानकराः सर्व भूतेषु विश्रुताः ॥१-११-१०॥

एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥

स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।
स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥

सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥

स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।
वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥

अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।
आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥

ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।
ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥

सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।
रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥

सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।
एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥

सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।
शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥

मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।
तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥

उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥

स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।
ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥

ननंदतुः दशरथो रोमपादः च वीर्यवान् ।
ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥

पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।
क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥

धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।
ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥

तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।
ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥

शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।
ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥

प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥

अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।
कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥

अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।
सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥

पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।
उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥