रामायणम्/बालकाण्डम्/सर्गः ६८
← सर्गः ६७ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ६९ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
जनकेन समादिष्टा दूताः ते क्लान्त वाहनाः ।
त्रि रात्रम् उषिता मार्गे ते अयोध्याम् प्राविशन् पुरीम् ॥१-६८-१॥
ते राज वचनात् गत्वा राजवेश्म प्रवेशिताः ।
ददृशुः देव संकाशम् वृद्धम् दशरथम् नृपम् ॥१-६८-२॥
बद्ध अंजलि पुटाः सर्वे दूता विगत साध्वसाः ।
राजानम् प्रश्रितम् वाक्यम् अब्रुवन् मधुर अक्षरम् ॥१-६८-३॥
मैथिलो जनको राजा स अग्नि होत्र पुरस्कृतः ।
मुहुर् मुहुर् मधुरया स्नेह संरक्तया गिरा ॥१-६८-४॥
कुशलम् च अव्ययम् चैव स उपाध्याय पुरोहितम् ।
जनकः त्वाम् महाराज पृच्छते स पुरः सरम् ॥१-६८-५॥
पृष्ट्वा कुशलम् अव्यग्रम् वैदेहो मिथिलाधिपः ।
कौशिक अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत् ॥१-६८-६॥
पूर्वम् प्रतिज्ञा विदिता वीर्य शुल्का मम आत्मजा ।
राजानः च कृत अमर्षा निर्वीर्या विमुखी कृताः ॥१-६८-७॥
सा इयम् मम सुता राजन् विश्वामित्र पुरस्कृतैः ।
यदृच्छया आगतैः वीरैः निर्जिता तव पुत्रकैः ॥१-६८-८॥
तत् च रत्नम् धनुर् दिव्यम् मध्ये भग्नम् महात्मना ।
रामेण हि महाबाहो महत्याम् जन संसदि ॥१-६८-९॥
अस्मै देया मया सीता वीर्य शुल्का महात्मने ।
प्रतिज्ञाम् तर्तुम् इच्छामि तत् अनुज्ञातुम् अर्हसि ॥१-६८-१०॥
स उपाध्यायो महाराज पुरोहित पुरस्कृतः ।
शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ ॥१-६८-११॥
प्रतिज्ञाम् मम राजेन्द्र निर्वर्तयितुम् अर्हसि ।
पुत्रयोः उभयोः एव प्रीतिम् त्वम् अपि लप्स्यसे ॥१-६८-१२॥
एवम् विदेह अधिपतिः मधुरम् वाक्यम् अब्रवीत् ।
विश्वामित्र अभ्यनुज्ञातः शताअनन्द मते स्थितः ॥१-६८-१३॥
दूत वाक्यम् तु तत् श्रुत्वा राजा परम हर्षितः ।
वसिष्ठम् वामदेवम् च मंत्रिणः च एवम् अब्रवीत् ॥१-६८-१४॥
गुप्तः कुशिक पुत्रेण कौसल्य आनन्द वर्धनः ।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसति असौ ॥१-६८-१५॥
दृष्ट वीर्यः तु काकुत्स्थो जनकेन महात्मना ।
संप्रदानम् सुतायाः तु राघवे कर्तुम् इच्छति ॥१-६८-१६॥
यदि वो रोचते वृत्तम् जनकस्य महात्मनः ।
पुरीम् गच्छामहे शीघ्रम् मा भूत् कालस्य पर्ययः ॥१-६८-१७॥
मंत्रिणो बाढम् इति आहुः सह सर्वैः महर्षिभिः ।
सु प्रीतः च अब्रवीत् राजा श्वः यात्रा इति च मंत्रिणः ॥१-६८-१८॥
मंत्रिणः तु नरेन्द्रस्य रात्रिम् परम सत्कृताः ।
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥१-६८-१९॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।