रामायणम्/बालकाण्डम्/सर्गः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३१ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

अथ तौ देश कालज्ञौ राजपुत्रौ अरिंदमौ ।
देशे काले च वाक्यज्ञौ अब्रूताम् कौशिकम् वचः ॥१-३०-१॥

भगवन् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रूहि न अतिवर्तेत तत् क्षणम् ॥१-३०-२॥

एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ ॥१-३०-३॥

अद्य प्रभृति षट् रात्रम् रक्षतम् राघवौ युवाम् ।
दीक्षाम् गतो हि येष मुनिर् मौनित्वम् च गमिष्यति ॥१-३०-४॥

तौ तु तद् वचनम् श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रौ षट् अहोरात्रम् तपोवनम् अरक्षताम् ॥१-३०-५॥

उपासाम् चक्रतुर् वीरौ यत्तौ परम धन्विनौ ।
ररक्षतुर् मुनिवरम् विश्वामित्रम् अरिंदमौ ॥१-३०-६॥

अथ काले गते तस्मिन् षष्ठे अहनि तदा आगते ।
सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥

रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिः स उपाध्याय पुरोहिता ॥१-३०-८॥

स दर्भ चमस स्रुक्का स समित् कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिः जज्वाल स ऋत्विजा ॥१-३०-९॥

मंत्रवत् च यथा न्यायम् यज्ञो असौ संप्रवर्तते ।
आकाशे च महान् शब्दः प्रादुर् आसीत् भयानकः ॥१-३०-१०॥

आवार्य गगनम् मेघो यथा प्रावृषि दृश्यते ।
तथा मायाम् विकुर्वाणौ राक्षसौ अभ्यधावताम् ॥१-३०-११॥

मारीचः च सुबाहुः च तयोर् अनुचराः तथा ।
आगम्य भीम संकाशा रुधिर ओघान् अवासृजन् ॥१-३०-१२॥

ताम् तेन रुधिर ओघेण वेदीम् वीक्ष्य समुक्षिताम् ।
सहसा अभिद्रुतो रामः तान् अपश्यत् ततो दिवि ॥१-३०-१३॥

तौ आपतन्तौ सहसा दृष्ट्वा राजीव लोचनः ।
लक्ष्मणम् तौ अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् ॥१-३०-१४॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशित अशनान् ।
मानवास्त्र समाधूतान् अनिलेन यथा घनान् ॥१-३०-१५॥
करिष्यामि न संदेहो न उत्सहे हन्तुम् ईदृशान् ।

इति उक्त्वा वचनम् रामः चापे संधाय वेगवान् ॥१-३०-१६॥
मानवम् परम उदारम् अस्त्रम् परम भास्वरम् ।
चिक्षेप परम क्रुद्धो मारीच उरसि राघवः ॥१-३०-१७॥

स तेन परमास्त्रेण मानवेन समाहितः ।
संपूर्णम् योजन शतम् क्षिप्तः सागर संप्लवे ॥१-३०-१८॥

विचेतनम् विघूर्णन्तम् शीतेषु बल पीडितम् ।
निरस्तम् दृश्य मारीचम् रामो लक्ष्मणम् अब्रवीत् ॥१-३०-१९॥

पश्य लक्ष्मण शीतेषुम् मानवम् मनु संहितम् ।
मोहयित्वा नयति एनम् न च प्राणैर् व्ययुज्यत ॥१-३०-२०॥

इमान् अपि वधिष्यामि निर्घृणान् दुष्ट चारिणः ।
राक्षसान् पाप कर्मस्थान् यज्ञ घ्नान् रुधिर अशनान् ॥१-३०-२१॥

इति उक्त्वा लक्ष्मणम् च अशु लाघवम् दर्शयन् इव ।
संगृह्य सुमहत् च अस्त्रम् आग्नेयम् रघुनंदनः ।
सुबाहु उरसि चिक्षेप स विद्धः प्रापतत् भुवि ॥१-३०-२२॥

शेषान् वायव्यम् आदाय निजघान महायशाः ।
राघवः परमोदारो मुनीनाम् मुदम् आवहन् ॥१-३०-२३॥

स हत्वा राक्षसान् सर्वान् यज्ञ घ्नान् रघुनंदनः ।
ऋषिभिः पूजितः तत्र यथा इन्द्रो विजये पुरा ॥१-३०-२४॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥१-३०-२५॥

कृतार्थो अस्मि महाबाहो कृतम् गुरु वचः त्वया ।
सिद्धाश्रमम् इदम् सत्यम् कृतम् वीर महायशः ।
स हि रामम् प्रशस्य एवम् ताभ्याम् संध्याम् उपागमत् ॥१-३०-२६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥