रामायणम्/बालकाण्डम्/सर्गः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३२ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥

अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ ।
ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना ॥१-३१-१॥

प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ ।
विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः ॥१-३१-२॥

अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् ।
ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ ॥१-३१-३॥

इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ ।
आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् ॥१-३१-४॥

एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः ।
विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥१-३१-५॥

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् ॥१-३१-६॥

त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि ।
अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि ॥१-३१-७॥

तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः ।
अप्रमेय बलम् घोरम् मखे परम भास्वरम् ॥१-३१-८॥

न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः ।
कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः ॥१-३१-९॥

धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः ।
न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः ॥१-३१-१०॥

तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् ॥१-३१-११॥

तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः ।
याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः ॥१-३१-१२॥

आयागभूतम् नृपतेः तस्य वेश्मनि राघव ।
अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः ॥१-३१-१३॥

एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा ।
स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः ॥१-३१-१४॥

स्वस्ति वो अस्तु गमिष्यामि सिद्धः सिद्ध आश्रमात् अहम् ।
उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् ॥१-३१-१५॥

इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१-३१-१६॥

तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् ।
शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् ॥१-३१-१७॥

मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः ।
अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् ॥१-३१-१८॥
निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः ।

ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः ।

ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः ॥१-३१-२०॥
विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः ।

रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च ॥१-३१-२१॥
अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः ।

अथ रामो महातेजा विश्वामित्रम् तपोधनम् ॥१-३१-२२॥
पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः ।

भगवन् कः नु अयम् देशः समृद्ध वन शोभितः ॥१-३१-२३॥
श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः ।

चोदितो राम वाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः ॥१-३१-२४॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥