रामायणम्/बालकाण्डम्/सर्गः ५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ५२ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्ट रोमा महातेजाः शताअनन्दो महातपाः ॥१-५१-१॥
गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।
राम संदर्शनात् एव परम् विस्मयम् आगतः ॥१-५१-२॥

एतौ निषण्णौ संप्रेक्ष्य सुख आसीनौ नृपात्मजौ ।
शताअनंदो मुनिश्रेष्ठम् विश्वामित्रम् अथ अब्रवीत् ॥१-५१-३॥

अपि ते मुनि शार्दूल मम माता यशस्विनी ।
दर्शिता राज पुत्राय तपो दीर्घम् उपागता ॥१-५१-४॥

अपि रामे महातेजो मम माता यशस्विनी ।
वन्यैः उपाहरत् पूजाम् पूजा अर्हे सर्व देहिनाम् ॥१-५१-५॥

अपि रामाय कथितम् यथा वृत्तम् पुरातनम् ।
मम मातुः महातेजो दैवेन दुरनुष्ठितम् ॥१-५१-६॥

अपि कौशिक भद्रम् ते गुरुणा मम संगता ।
माता मम मुनिश्रेष्ठ राम संदर्शनात् इतः ॥१-५१-७॥

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
इह आगतो महातेजाः पूजाम् प्राप्य महात्मनः ॥१-५१-८॥

अपि शांतेन मनसा गुरुः मे कुशिकात्मज ।
इह आगतेन रामेण पूजितेन अभिवादितः ॥१-५१-९॥

तत् श्रुत्वा वचनम् तस्य विश्वामित्रो महामुनिः ।
प्रति उवाच शतानंदम् वाक्यज्ञो वाक्य कोविदम् ॥१-५१-१०॥

न अतिक्रान्तम् मुनिश्रेष्ठ यत् कर्तव्यम् कृतम् मया ।
संगता मुनिना पत्नी भार्गवेण इव रेणुका ॥१-५१-११॥

तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः ।
शतानंदो महातेजा रामम् वचनम् अब्रवीत् ॥१-५१-१२॥

स्वागतम् ते नरश्रेष्ठ दिष्ट्या प्राप्तो असि राघव ।
विश्वामित्रम् पुरस्कृत्य महर्षिम् अपराजितम् ॥१-५१-१३॥

अचिन्त्य कर्मा तपसा ब्रह्मर्षिः अमित प्रभः ।
विश्वामित्रो महातेजा - वेद्म्य - वेत्सि एनम् परमाम् गतिम् ॥१-५१-१४॥

न अस्ति धन्यतरो राम त्वत्तो अन्यो भुवि कश्चन ।
गोप्ता कुशिक पुत्रः ते येन तप्तम् महत् तपः ॥१-५१-१५॥

श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः ।
यथा बलम् यथा तत्त्वम् तत् मे निगदतः शृणु ॥१-५१-१६॥

राजा अभूत् एष धर्मात्मा दीर्घ कालम् अरिन्दमः ।
धर्मज्ञः कृत विद्यः च प्रजानाम् च हिते रतः ॥१-५१-१७॥

प्रजापति सुतः तु आसीत् कुशो नाम महीपतिः ।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१-५१-१८॥

कुशनाभ सुतः तु आसीत् गाधिः इति एव विश्रुतः ।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१-५१-१९॥

विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।
बहु वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-५१-२०॥

कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।
अक्षौहिणी परिवृतः परिचक्राम मेदिनीम् ॥१-५१-२१॥

नगराणि च राष्ट्रानि सरितः च तथा गिरीन् ।
आश्रमान् क्रमशो राजा विचरन् आजगाम ह ॥१-५१-२२॥
वसिष्ठस्य आश्रम पदम् नाना पुष्प लता द्रुमम् ।
नाना मृग गण आकीर्णम् सिद्ध चारण सेवितम् ॥१-५१-२३॥
देव दानव गन्धर्वैः किन्नरैः उपशोभितम् ।
प्रशांत हरिण आकीर्णम् द्विज संघ निषेवितम् ॥१-५१-२४॥
ब्रह्म ऋषि गण संकीर्णम् देव ऋषि गण सेवितम् ।
तपः चरण संसिद्धैः अग्नि कल्पैः महात्मभिः ॥१-५१-२५॥
सततम् संकुलम् श्रीमत् ब्रह्म कल्पैः महात्मभिः ।
अब् भक्षैः वायु भक्षैः च शीर्ण पर्ण अशनैः तथा ॥१-५१-२६॥
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा -
फल मूल अशनैः दान्तैः जित दोषैः जित इन्द्रियैः ।
ऋषिभिः वालखिल्यैः च जप होम परायणैः ॥१-५१-२७॥
अन्यैः वैखानसैः चैव समंतात् उपशोभितम् ।

वसिष्ठस्य आश्रम पदम् ब्रह्म लोकम् इव अपरम् ।
ददर्श जयताम् श्रेष्ठ विश्वामित्रो महाबलः ॥१-५१-२८॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥