रामायणम्/बालकाण्डम्/सर्गः ६६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ६७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥

ततः प्रभाते विमले कृत कर्मा नराधिपः ।
विश्वामित्रम् महात्मानम् आजुहाव स राघवम् ॥१-६६-१॥

तम् अर्चयित्वा धर्माअत्मा शास्त्र दृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्यम् उवाच ह ॥१-६६-२॥

भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ ।
भवान् आज्ञापयतु माम् आज्ञाप्यो भवता हि अहम् ॥१-६६-३॥

एवम् उक्तः स धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर् वीरम् वाक्यम् वाक्य विशारदः ॥१-६६-४॥

पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक विश्रुतौ ।
द्रष्टु कामौ धनुः श्रेष्ठम् यत् एतत् त्वयि तिष्ठति ॥१-६६-५॥

एतत् दर्शय भद्रम् ते कृत कामौ नृप आत्मजौ ।
दर्शनात् अस्य धनुषो यथा इष्टम् प्रतियास्यतः ॥१-६६-६॥

एवम् उक्तः तु जनकः प्रत्युवाच महामुनिम् ।
श्रूयताम् अस्य धनुषो यत् अर्थम् इह तिष्ठति ॥१-६६-७॥

देवरात इति ख्यातो निमेः ज्येष्ठो मही पतिः ।
न्यासो अयम् तस्य भगवन् हस्ते दत्तो महात्मना ॥१-६६-८॥

दक्ष यज्ञ वधे पूर्वम् धनुः आयम्य वीर्यवान् ।
रुद्रः तु त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत् ॥१-६६-९॥

यस्मात् भाग अर्थिनो भागान् न अकल्पयत मे सुराः ।
वर अंगानि महाअर्हाणि धनुषा शातयामि वः ॥१-६६-१०॥

ततो विमनसः सर्वे देवा वै मुनिपुंगव ।
प्रसादयन्ति देवेशम् तेषाम् प्रीतो अभवत् भवः ॥१-६६-११॥

प्रीति युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् ।
तत् एतत् देवदेवस्य धनू रत्नम् महात्मनः ॥१-६६-१२॥
न्यासभूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभो ।

अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता मम ॥१-६६-१३॥
क्षेत्रम् शोधयता लब्ध्वा नाम्ना सीता इति विश्रुता ।

भू तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा ॥१-६६-१४॥
वीर्य शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा ।

भूतलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् ॥१-६६-१५॥
वरयामासुः आगम्य राजानो मुनिपुंगव ।

तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् ॥१-६६-१६॥
वीर्य शुल्का इति भगवन् न ददामि सुताम् अहम् ।

ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥
मिथिलाम् अभ्युपागम्य वीर्यम् जिज्ञासवः तदा ।

तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम् ॥१-६६-१८॥
न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा ।

तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने ॥१-६६-१९॥
प्रत्याख्याता नृपतयः तन् निबोध तपोधन ।

ततः परम कोपेन राजानो मुनिपुंगव ॥१-६६-२०॥
अरुन्धन् मिथिलाम् सर्वे वीर्य संदेहम् आगताः ।

आत्मानम् अवधूतम् ते विज्ञाय मुनिपुंगव ॥१-६६-२१॥
रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम् ।

ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः ॥१-६६-२२॥
साधनानि मुनिश्रेष्ठ ततो अहम् भृश दुःखितः ।

ततो देव गणान् सर्वान् तपसा अहम् प्रसादयम् ॥१-६६-२३॥
ददुः च परम प्रीताः चतुरंग बलम् सुराः ।

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥
अवीर्या वीर्य संदिग्धा स अमात्याः पाप कारिणः ।

तत् एतत् मुनिशार्दूल धनुः परम भास्वरम् ॥१-६६-२५॥
राम लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत ।

यदि अस्य धनुषो रामः कुर्यात् आरोपणम् मुने ।
सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् ॥१-६६-२६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥