रामायणम्/बालकाण्डम्/सर्गः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३२ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३४ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥

तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत ॥१-३३-१॥

वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।
अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते ॥१-३३-२॥

पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः ।
पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव ॥१-३३-३॥

तेन पाप अनुबन्धेन वचनम् न प्रतीच्छता ।
एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् ॥१-३३-४॥

तासाम् तु वचनम् श्रुत्वा राजा परम धार्मिकः ।
प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् ॥१-३३-५॥

क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत् कृतम् ।
ऐकमत्यम् उपागम्य कुलम् च आवेक्षितम् मम ॥१-३३-६॥

अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा ।
दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः ॥१-३३-७॥
यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः ।

क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः ॥१-३३-८॥
क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् ।

विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः ॥१-३३-९॥
मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः ।
देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१-३३-१०॥

एतस्मिन् एव काले तु चूली नाम महाद्युतिः ।
ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् ॥१-३३-११॥

तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते ।
सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा ॥१-३३-१२॥

सा च तम् प्रणता भूत्वा शुश्रूषण परायणा ।
उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः ॥१-३३-१३॥

स च ताम् काल योगेन प्रोवाच रघु नंदन ।
परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१-३३-१४॥

परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् ।
उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् ॥१-३३-१५॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतो महातपाः ।
ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१-३३-१६॥

अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ।
ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१-३३-१७॥

तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् ।
ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् ॥१-३३-१८॥

स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा ।
कांपिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥

स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा ॥१-३३-२०॥

तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः ।
ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना ॥१-३३-२१॥

यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन ।
ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा ॥१-३३-२२॥

स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः ।
युक्ताः परमया लक्ष्म्या बभौ कन्या शतम् तदा ॥१-३३-२३॥

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः ॥१-३३-२४॥

कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः ।
सदारम् प्रेषयामास स उपाध्याय गणम् तदा ॥१-३३-२५॥

सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् ।
यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१-३३-२६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥