रामायणम्/बालकाण्डम्/सर्गः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४२ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥

पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।
नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥

शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।
पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥

अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥

अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥

एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।
धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥

स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।
प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥

देव दानव रक्षोभिः पिशाच पतग उरगैः ।
पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥

स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।
पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥

दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।
आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥

तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।
यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥

तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।
पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥

तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।
भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥

स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।
चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥

यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥

स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।
स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥

विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।
पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥

स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।
मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥

कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।
सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥

गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥

भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।
तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।
षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥

निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।
यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥

सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।
त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥

ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।
न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥

तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।
यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥

स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।
गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥

अगत्वा निश्चयम् राजा कालेन महता महान् ।
त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥