रामायणम्/बालकाण्डम्/सर्गः ६३
← सर्गः ६२ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ६४ → |
रामायणम्/बालकाण्डम् |
---|
<poem>
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।
अभ्यागच्चन् सुराः सर्वे तपः फल चिकीर्षवः ॥१-६३-१॥
अब्रवीत् सु महातेजा ब्रह्मा सु रुचिरम् वचः ।
ऋषिः त्वम् असि भद्रम् ते स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२॥
तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।
विश्वामित्रो महातेजा भूयः तेपे महत् तपः ॥१-६३-३॥
ततः कालेन महता मेनका परम अप्सराः ।
पुष्करेषु नर श्रेष्ठ स्नातुम् समुपचक्रमे ॥१-६३-४॥
ताम् ददर्श महातेजा मेनकाम् कुशिक आत्मजः ।
रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा ॥१-६३-५॥
दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।
अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे ॥१-६३-६॥
अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।
इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत् ॥१-६३-७॥
तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।
तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव ॥१-६३-८॥
विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥
स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।
बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन ॥१-६३-१०॥
सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।
अहो रात्रा अपदेशेन गताः संवत्सरा दश ॥१-६३-११॥
काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।
स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥
भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।
मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः ॥१-६३-१३॥
उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।
स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः ॥१-६३-१४॥
कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।
तस्य वर्ष सहस्राणि घोरम् तप उपासतः ॥१-६३-१५॥
उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।
अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः ॥१-६३-१६॥
महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।
देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ॥१-६३-१७॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।
महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः ॥१-६३-१८॥
महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः ॥१-६३-१९॥
प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।
ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२०॥
यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।
तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः ॥१-६३-२१॥
यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥
ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।
धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः ॥१-६३-२३॥
शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।
एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत् ॥१-६३-२४॥
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।
संतापः सुमहान् आसीत् सुराणाम् वासवस्य च ॥१-६३-२५॥
रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।
उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च ॥१-६३-२६॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।