रामायणम्/बालकाण्डम्/सर्गः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १७ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥

ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।
जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-१६-१॥

उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।
यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम् ॥१-१६-२॥

एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।
मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१-१६-३॥

स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।
येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः ॥१-१६-४॥

सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।
नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात् ॥१-१६-५॥

अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥

उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥

इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।
पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥

स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।
अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥

स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।
अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥

ततो वै यजमानस्य पावकात् अतुल प्रभम् ।
प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥

कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।
स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥

शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।
शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥

दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।
तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥

दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।
प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥

समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।
प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥

ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।
भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥

अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।
राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥

इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।
प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥

भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।
तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥

तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।
पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥

अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।
मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥

ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।
बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥

ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।
संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥

हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।
शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥

सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।
पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥

कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।
अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥

कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।
प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥

अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।
एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥

ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।
सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥

ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।
हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥

ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।
बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥

इति श्री वाल्मीकि रामायणे आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥