रामायणम्/बालकाण्डम्/सर्गः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २३ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २५ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ ।
विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१-२४-१॥

ते च सर्वे महात्मानो मुनयः संश्रित व्रताः ।
उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१-२४-२॥

आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः ।
अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥१-२४-३॥

विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च ।
ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥१-२४-४॥

तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् ।
मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
ज्ञातु कामो महातेजा सह रामः कनीयसा ।

अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥१-२४-६॥
वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः ।

राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥१-२४-७॥
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।

कैलास पर्वते राम मनसा निर्मितम् परम् ॥१-२४-८॥
ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः ।

तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१-२४-९॥
सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता ।
तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥१-२४-१०॥
वारि संक्षोभजो राम प्रणामम् नियतः कुरु ।

ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥१-२४-११॥
तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ ।

स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् ।

अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥१-२४-१३॥
भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः ।

नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥१-२४-१४॥
सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् ।

धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥१-२४-१५॥
संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् ।

तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् ।

एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥१-२४-१७॥
मलदाः च करूषाः च देव निर्माण निर्मितौ ।

पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् ।

तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥१-२४-१९॥
कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् ।

इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥१-२४-२०॥
शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे ।

निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥१-२४-२१॥
ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् ।

इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१-२४-२२॥
मलदाः च करूषाः च मम अंग मल धारिणौ ।

साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१-२४-२३॥
देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता ।

एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥१-२४-२४॥
मलदाः च करूषाः च मुदिता धन धान्यतः ।

कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥१-२४-२५॥
बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् ।
ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः ।

वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥१-२४-२७॥
राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः ।

इमौ जनपदौ नित्यम् विनाशयति राघव ॥१-२४-२८॥
मलदांश्च करूषांश्च ताटका दुष्ट चारिणी ।

सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥१-२४-२९॥
अत एव च गन्तव्यम् ताटकाया वनम् यतः ।

स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥१-२४-३०॥
मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः ।

न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥१-२४-३१॥
यक्षिण्या घोरया राम उत्सादितम् असह्यया ।

एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् ।
यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥१-२४-३२॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे चतुर् विंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

[सम्पाद्यताम्]

विश्वामित्रस्य यागस्य रहस्यम्